Book Title: Darbarilal Kothiya Abhinandan Granth
Author(s): Jyoti Prasad Jain
Publisher: Darbarilal Kothiya Abhinandan Granth Prakashan Samiti

View full book text
Previous | Next

Page 519
________________ श्रुत- पञ्चमी श्रीवृषभादिवीरान्तं रागद्वेषविवर्जितम् । जिनं नत्वा गुरुं चेति श्रुतं नौमि जिनोद्भवम् ॥ दिगम्बर जैन परम्परायां महावीर जन्यत्युत्सववदेव श्रुत- पञ्चभ्युत्सवोऽपि महताऽऽदरेण प्रतिवर्षं सोल्लासं सम्पद्यते । तद्द्द्दिवसे स्वे स्वे स्थाने सर्वे जैनाः सम्भूय श्रुतपूजां प्रकुर्वते । श्रुतोत्पत्तेश्चैतिह्यमाकर्णयन्ति । तन्माहात्म्यं चावधारयन्ति । प्रसीदन्ति च मुहुर्मुहुः स्वमनस्सु । धन्योऽयं दिवसः । धन्यास्ते महाभागाः यैरस्मिन् दिवसेऽस्मत्कृते स्वहितप्रदर्शकः श्रुतालोकः प्रदत्तः । यदालोकेनाद्यावधि पश्यामो वयं स्वहितस्य पन्थानम् । यदि नाम न स्याच्छु तालोकोऽयं न जाने पथभ्रष्टाः सन्तः क्व गच्छेम वयम् । न हि कृतमुपकारं साधवो विस्मरन्ति' इति सतां वचनमनुस्मृत्यास्माभिः श्रुतदेवताजन्मदातुः स्मरणार्थं स्वस्य कृतज्ञताप्रकाशनार्थं चेदं श्रुतपञ्चमीतिपर्व सवैशिष्ट्यं सम्पादनीयम् । सततं श्रुताभ्यास - पठन-पाठनदत्तचेतोभिश्च भाव्यम् । सर्वत्र च श्रुतप्रचारः कार्यः । केवलमेकत्र स्थाने शास्त्राण्येकीकृत्य तेभ्य अर्धप्रदानं न श्रुतपूजा श्रतोपासना वा अपितु नित्यं प्रसन्नेन मनसा शास्त्राध्ययनं गृहे गृहे शास्त्रप्रवेशः शास्त्रदानं शास्त्रप्रकाशनं चेत्येवं श्रुतप्रचारः श्रुतप्रसारो वा श्रुतपूजा विज्ञेया । श्रावकस्य षडावश्यकेषु 'देवपूजा गुरूपास्ति स्वाध्यायः संयमस्तपः ।' इत्यादिना स्वाध्यायस्यावश्यक कर्त्तव्यत्वेन निर्देशः कृतः । श्रावकाचार - साध्वाचारमर्मज्ञेन विदुषा श्रीमदाशाघरेण श्रुतपूजा देवपूजातुल्यैवाभिहिता - ये यजन्ते श्रुतं भक्त्या ते यजन्ते जिनमञ्जसा । न किञ्चिदन्तरं प्राहुराप्ता हि श्रुतदेवयोः ॥ स्वामिसमन्तभद्राचार्येणाप्युक्तं देवागमे स्याद्वाद - केवलज्ञाने Jain Education International - सागारधर्मामृते २- ४४ ॥ सर्वतत्त्व - प्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥ १०५ ॥ अतएव पूजा भक्त्यादिषु श्रुतस्यैव भक्तिः प्रार्थिता, न मत्यादिचतुष्टयस्य, संसारवारकत्वाभावात् मोक्षकारणत्वाभावाच्च । श्रुतस्य तु तदुभयकार्यकारित्वात् । तथा हि श्रुते भक्तिः श्रुते भक्तिः श्रुते भक्तिः सदाऽतु मे । सज्ज्ञानमेव संसारवारणं मोक्षकारणम् ॥ इत्थं श्रुतस्य माहात्म्यं विदितमेव । साम्प्रतं श्रुतोत्पत्तेः किञ्चिदैतिह्यं विलिख्यते । यद्यपि श्रुतावतारादिग्रन्थेषु श्रुतोत्पत्तेरैतिह्यं निबद्धमेव तथापि सर्वजनावबोधार्थमत्र संक्षेपतः तन्निगद्यते । तथा हि षट्खण्डागमस्य टीकायां घवलायां वीरसेनाचार्येण कर्त्तृ विवेचनप्रसङ्गेन कर्ता द्विविधः प्रोक्तः - अर्थकर्ता ग्रन्थकर्ता च । तत्रार्थकर्ता द्रव्यादिचतुष्टयापेक्षया चतुर्विधो निरूपितः -- द्रव्यकर्ता क्षेत्रकर्ता कालकर्ता भावकर्ता च । अष्टादशदोषविमुक्तश्चतुर्विधोपसगं द्वाविंशतिपरीषहातिक्रान्तो योजनान्तरदूरसमीपस्थाष्टादशभाषासप्तशत - ४६२ - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560