Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 8
________________ किञ्चित् प्रास्ताविकम् प्रशस्तौ निजकुलगणशाखागच्छगुरूणां यो नामोल्लेखोऽकारि तदाधारेण ज्ञायते यदुतैतेषां प्रश्नवाहनाभिधं कुलम् , कोटिकाभिख्यं गणम् , मध्यमाख्या शाखा, हर्षपुरीयाई गच्छम् , श्रीतिलकेत्याह्वथाश्च गुरवः। यैर्मलधारिश्रीराजशेखरसूरिभिर्षड्दर्शनसमुच्चयः सन्हब्धःत एव इमे इति सम्भाव्यते। ७१० श्लोकप्रमाणकवस्तुपालप्र. बन्धस्य प्रणेतृरूपेण येषां श्रीराजशेखरेति नामधेयं निर्दिष्टं जैनग्रन्थाक्ल्यां तेऽपीमे एव स्युः। स प्रबन्धोऽपि प्रबन्धकोशस्थास्यान्तर्गत एव स्यात् । निश्चयस्तु तत्प्रतिविलोकनेनैव शक्यः । एभिलधारिसूरिभिश्चतुरशीतिः कथा अपि निर्मिता इति ज्ञाम्यते बृहट्टिप्पनिकागतेन निम्नलिखितेनोल्लेखेन " २४ प्रबन्धाः ८४ कथाश्च राजशेखरसूरिरचिताः।" अथवा प्रत्यक्षेप्रमाणे सति किमनुमानेन ? । अयं चतुरशीतिकथात्मको ग्रन्थः प्रसिद्धिं नीतः पण्डितश्रावकहीरालालहंसराजनामकैमहाशयैर्वैक्रमीयाब्दे १९६९तमे । १ एतन्नामोल्लेखो मङ्गलाचरणरूपेण रचितस्य पद्यपञ्चकस्य प्रान्तेऽप्यवलोक्यते । आये पद्यचतुष्के तु श्रीऋषभ-नेमि-पार्श्व-वीरेतितीर्थङ्करचतुष्टयस्य वन्दनं विहितमाचार्यवर्यैः । २ अस्याचं पद्यमित्यम्-- " नत्वा निजगुरून् भक्त्या, स्मृत्वा वाङ्मयदेवताम् । सर्वदर्शनवक्तव्यं, वक्ति श्रीराजशेखरः ॥ १॥ अन्तिमं तु यथा" बालावबोधनकृते 'मलधारि' सूरिः श्रीराजशेखर इति प्रथमानबुद्धिः । सम्यग् गुरोरधिगतोत्तमतर्कशास्त्रः षड्दर्शनीमिति मनाक् कथयाम्बभूव ॥ १८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 320