Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 6
________________ किञ्चित् प्रास्ताविकम् । " भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥" विदाङ्कुर्वन्तु विद्यारसिकशिरोमणयः सहृदयहृदया यदर्य प्रबन्धकोशेत्यपराह्वयः श्रीचतुर्विंशतिप्रबन्धो गूर्जरगीगुम्फितो गद्यप्रायः प्राकृतादिभाषानिबद्धैः पद्यगंद्यात्मकैश्चावतरणैः समलङ्कृतो ग्रन्थो वरीवति । अत्र सूरिप्रवन्धा दश, १ सन्तुल्यतां यदुक्तं स्वयं प्रन्थकारैः प्रशस्त्यां निम्नलिखितपद्यद्वारा__ " तेनायं मृदुगधैर्मुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धकोशो जयताज्जिनपतिमतं यावत् ॥३॥" २ प्राकृत-प्राचीनगूर्जरादिभाषासङ्कलितानामवतरणानां प्रतिसंस्कृतं कृतं मया मन्दधिया, किन्तु कुत्रचित् समस्ति शङ्का । यत्र स्खलनाऽवगम्यते शेमुषीशालिभिस्तत्प्रमार्जनं ते करिष्यन्ति मद्यं च निवेदयिभ्यन्तीति तेभ्यो मेऽभ्यर्थना विद्यते । ३ ' गुरुवचनमलमपि०' इति गद्यात्मक अवतरणं तृतीये पृष्ठे । एतस्य मूलस्थलनिर्देशार्थिभिः प्रेक्ष्यतां श्रीयुतकालेद्वारा सम्पादितायाः कादम्बर्याः १०३तमः परिच्छेदः । ४ एतेषां सर्वेषां मूलस्थाननिर्देशकरणे नाहमलं, यथेष्टसाधनाप्राप्तेः । तथापि कतिपयानां मूलस्थानं प्रादर्शि मया छ-परिशिष्टे । अनेनानुमीयते यदुत अयोगव्यवच्छेदिकाद्वात्रिंशिका-कादम्बरी-कुमारसम्भव-नैषधीयचरित्र-रघुवंश-प्रबन्धचिन्तामाण-रुद्रटालङ्कार-विक्रमोर्वशीय-वेणीसंहार-वैराग्यशतकप्रभृतयो ग्रन्था ग्रन्थकाराणां रष्टिपथमवतीर्णाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 320