________________
किञ्चित् प्रास्ताविकम् प्रशस्तौ निजकुलगणशाखागच्छगुरूणां यो नामोल्लेखोऽकारि तदाधारेण ज्ञायते यदुतैतेषां प्रश्नवाहनाभिधं कुलम् , कोटिकाभिख्यं गणम् , मध्यमाख्या शाखा, हर्षपुरीयाई गच्छम् , श्रीतिलकेत्याह्वथाश्च गुरवः।
यैर्मलधारिश्रीराजशेखरसूरिभिर्षड्दर्शनसमुच्चयः सन्हब्धःत एव इमे इति सम्भाव्यते। ७१० श्लोकप्रमाणकवस्तुपालप्र. बन्धस्य प्रणेतृरूपेण येषां श्रीराजशेखरेति नामधेयं निर्दिष्टं जैनग्रन्थाक्ल्यां तेऽपीमे एव स्युः। स प्रबन्धोऽपि प्रबन्धकोशस्थास्यान्तर्गत एव स्यात् । निश्चयस्तु तत्प्रतिविलोकनेनैव शक्यः । एभिलधारिसूरिभिश्चतुरशीतिः कथा अपि निर्मिता इति ज्ञाम्यते बृहट्टिप्पनिकागतेन निम्नलिखितेनोल्लेखेन
" २४ प्रबन्धाः ८४ कथाश्च राजशेखरसूरिरचिताः।" अथवा प्रत्यक्षेप्रमाणे सति किमनुमानेन ? । अयं चतुरशीतिकथात्मको ग्रन्थः प्रसिद्धिं नीतः पण्डितश्रावकहीरालालहंसराजनामकैमहाशयैर्वैक्रमीयाब्दे १९६९तमे ।
१ एतन्नामोल्लेखो मङ्गलाचरणरूपेण रचितस्य पद्यपञ्चकस्य प्रान्तेऽप्यवलोक्यते । आये पद्यचतुष्के तु श्रीऋषभ-नेमि-पार्श्व-वीरेतितीर्थङ्करचतुष्टयस्य वन्दनं विहितमाचार्यवर्यैः । २ अस्याचं पद्यमित्यम्-- " नत्वा निजगुरून् भक्त्या, स्मृत्वा वाङ्मयदेवताम् ।
सर्वदर्शनवक्तव्यं, वक्ति श्रीराजशेखरः ॥ १॥ अन्तिमं तु यथा" बालावबोधनकृते 'मलधारि' सूरिः
श्रीराजशेखर इति प्रथमानबुद्धिः । सम्यग् गुरोरधिगतोत्तमतर्कशास्त्रः षड्दर्शनीमिति मनाक् कथयाम्बभूव ॥ १८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org