SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ किञ्चित् प्रास्ताविकम् कविप्रबधाश्चत्वारः, भूपतिप्रबन्धाः सप्त, राजाङ्गश्रावफप्रबन्धास्त्रयः; एवं प्रबन्धाश्चतुर्विंशतिः सन्ति । एतेषु कतिपयाः प्रभावकचरित्रेऽपि दृश्यन्ते यत्संवादादिमीमांसां कर्तुं प्रयतिष्येऽस्य ग्रन्थस्य गूर्जरभाषात्मकेऽनुवादे । चतुर्विंशतो प्रबन्धेषु सप्तमं विहाय सर्वे गद्यमयाः। किञ्च समस्तषु प्रबन्धेषु नवमः प्रान्तिमश्च विशेषतो विस्तृतौ वर्तेते। अपरश्चात्र क्वचिद् गूर्जरभाषायाः शब्दाः संस्कृतस्वाङ्गसज्जीकृता विलोक्यन्ते, यथाहि-बण्डः (पृ. ११), हकितः (पृ. २१), छोटयित्वा (पृ. ३४), खटपटापयति (पृ. ५३), टलवलायमानः (पृ.८१), तडफडायमाना (पृ. ९६), छुटन्ति (पृ. ९६), बुम्बां पातयन् (पृ. १२१), झगटक (पृ. १३८) । अस्मिन् प्रबन्धकोशे नाना न्याया अपि निर्दिष्टाः, यथाहि—'एकं वानरं अपरं वृश्चिकेन जग्धा' (पृ. १८, प.७), अस्थिमजः (पृ.५९, प. १), काफतालीयः (पृ. ८५, प. ४), अन्धवर्तकी (पृ.८५, प.५), 'भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलैः' (पृ. १२३, प. २०३) मात्स्यः (पृ. २०६) च । अस्य प्रबन्धकोशस्य प्रणेभिः श्रीराजशेखरसूरिभिः १ श्रीअमरचन्द्रसूरीणां प्रबन्धस्यान्तर्भावोऽत्र कृतः प्रस्तुतग्रन्थकारैः, न तु सूरिप्रबन्धेषु । तत्र केनापि कारणेन भवितव्यमिति सम्भावनायामे- : तेषां कविप्रतिभाप्रदर्शनहेतुकं निरूपणमिदमिति पोस्फुरीति । २ सन्तुल्यन्तां प्रभावकचरित्रगता आर्यनन्दिल-पादलिप्त-वृद्धवादि-मल्लवादि-हरिभद्र-बप्पभट्टि-हेमचन्द्रसूरीणां जीवनवृत्तान्ताः । ___३ मत्कृतोऽनुवादोऽयं प्रस्तावनापरिशिष्टादिपरिष्कृतश्च प्रसिद्धयमानोऽस्ति श्रीफार्बसगुजरातीसभया'ऽऽदित्य'मुद्रणालये राजनगरे । ४ प्रस्तुतप्रबन्धकाराणां काव्यनिर्माणसम्बन्धिनी कुशलता कीरशी वर्तते तनिश्चयार्थिभिः पठ्यता प्रबन्धोऽयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy