SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ किञ्चित् प्रास्ताविकम् स्याद्वाद कलिका कर्तीरोऽपि नाम्ना राजशेखरा इति जैनग्रन्थावल्यां निर्देशः । एतत्प्रणयनसमयः १२१४तमो वैक्रमायाब्द इति तत्र सूचितम् । अनेनानुमीयते यदुतैते न प्रस्तुताः । किश्च कर्पूरमञ्जरी - काव्यमीमांसा -बालभारत- बालरामायण- विद्धशालभञ्जिकाप्रणेतारो राजशेखरा अप्येभ्यो मलधारिनूरिभ्यो भिन्ना एव । लुङ् ( Aorist ) प्रयोगप्रचुरस्यास्य प्रबन्धकोशस्य संशो धनकार्ये साधनीभूतं पुस्तकचतुष्टयम् । तत्र क सञ्ज्ञकं पुण्यपत्तनस्थप्राच्यविद्यासंशोधनमन्दिरसत्कं हस्तलिखितम्, ख-घ -सञ्ज्ञात्मके मुम्बापुर्या रॉयल एशियाटिक्सोसायटिसत्के हस्तलिखिते, ग - स तु श्रीहेमचन्द्राचार्यग्रन्थावल्यां विंशतितमाङ्करूपेण प्रसिद्धिं नीतम् । एतस्मिन् पुस्तकचतुष्के क-ख - सञ्ज्ञयोः प्रायः परस्परा पाठसदृशता दरीदृश्यते, ग-घ -सञ्ज्ञयोरपि च तथाविभ्रता । घ-सञ्ज्ञा हस्तलिखिता प्रतिः शेषापेक्षया शुद्धतमा, परन्तु न चैतस्या एवाधारेण संशोधनं शक्यम् । किञ्च पुस्तकचतुष्टये प्राप्तेऽपि कतिचन स्थलानि सन्देहास्पदानि सन्ति । अस्य सम्पादनविधावनुगृहीतोऽस्मि महाशयैस्त्रिभिः । तत्र १३६तमानां पृष्ठानां द्वितीयवेलाशोधनपत्राणामेकस्या प्रतेः समीक्षणेनोपकृतोऽहं दक्षिणविहारिमुनिवर्य श्री अमरविजयशिष्यरत्नमुनिश्रीचतुरविजयैः सम्पूर्णस्य ग्रन्थस्य मुद्रणवेलाशोधनपत्राणां तु डॉ. वासुदेवराव गोपालराव पराञ्जपे एम्. ए., एलएल. बी. इत्येभिर्महानुभावैः । अपरश्चाहमृणीकृतः श्री फार्बस गुजराती समया यया जैनसाहित्यप्रचारकार्ये सुयोगः समर्पितो महाम् । एवं यथासाधनं सम्पादितो विषमस्थानेषु टिप्पनकैर्विशिष्टपरिशिष्टैश्व समलङ्कतोऽयं ग्रन्थः सायन्तः समीक्ष्यतां समीक्षकैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy