Book Title: Chandshastram Author(s): Pingalacharya, Kedarnath Publisher: Parimal Publications View full book textPage 6
________________ छन्दः शास्त्रस्य भूमिका । तत्र छन्दः समीक्षास्थश्छन्दस्तत्त्ववादःअथ किमिदं छन्द । इति पृच्छामः । •Mendo , "ननु च भोः ! यदि कश्विद्र्यात् कः खलु ब्राह्मण ? इति सोऽयं त्रिविधः पर्यनुयोगो भवति - लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षच । तदतस्त्रिविधः समाधिर्भवति - असौ देवदत्तो ब्राह्मण इति लक्ष्यापेक्षः, कश्यपाशिरोभृग्वत्रिवसिष्ठविश्वामित्रागस्त्याख्याः सप्तैव ब्राह्मणानो भवन्ति इति लक्षण्यापेक्षः, 'विद्या योनिः कर्म चेति त्रयं ब्राह्मण्यलक्षणम् । सेवा संग्रहवृद्धिश्व कालयापश्च पातनम् ॥ जीवितं यस्य धर्मार्थं धर्मो रत्यर्थमेव च । अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥ कर्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् । स्वधर्मनिरतः शुद्धस्तस्माद्राह्मण उच्यते ॥ जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते ॥ धृतिः क्षमा दयास्तेयं शौचमिन्द्रियनिग्रहः । विद्या चैव तपः सत्यं नवकं ब्रह्मलक्षणम् ॥' इति लक्षणापेक्षश्च । एवमेवेदं यददः पर्यनुयुज्यते किमिदं छन्द ? इति; सोऽयं त्रिविधः पर्यनुयोगो भवति - लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षच । तदतस्त्रिविधः समाधिर्भवति - 'अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं व॒धात॑मम् ॥' (ऋ. १.अ. १ ' अ. १ व.) इतीदं छन्द इति लक्ष्यापेक्षः, गायत्र्युष्णिगनुष्टुब्बृहती परिनिष्टुब्जगत्या - ख्याः सप्तैव छन्दोजातयो भवन्तीति लक्षण्यापेक्षः, 'यदक्षरपरिमाणं तच्छन्दः ' 'मात्राक्षरसंख्यानियता वाकू छन्द' इति लक्षणापेक्षश्च । तदित्थं सिद्धं प्रतिवचनमितीदं छन्द इति चेत्; न सिद्धम् । कुत एतत् ? । यदद रपरिमाणं तच्छन्द इति हि लक्षणमुच्यते, तत्तावदपर्याप्तं भवति । पृथिवी गायत्र अन्तरिक्षं त्रम्, द्यौर्जागती । अभिर्गायत्रः, इन्द्रस्त्रैष्टुभः, विश्वेदेवा जागताः । तेजा वै ब्रह्मवर्चसं गायत्रम्, ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् पशवो जागताः । ब्रह्म गायत्रम्, क्षनं त्रैष्टुभम्, विड् जगतम् । ब्राह्मणो गायत्रः, क्षत्रियस्त्रैष्टुभः, वैश्यो जा गतः । चतुर्विंशत्यक्षरा वाग्गायत्री, चतुश्चत्वारिंशदक्षरा वाक् त्रैष्टुभी, अष्टचत्वारिंशदPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 322