Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
इत्युक्त्वा , "अथो देवच्छन्दसानि वा एतानि, देवच्छन्दसान्येवोपधत्ते। द्वादश द्वादशा- . मित उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती, बृहती खलु वै छन्दसां . खाराज्यमानशे।" इत्यादिना लोकानां देवच्छन्दस्त्वं बृहतीच्छन्दस्वं चोपपादितम् । षट्त्रिंशदक्षराः वच्छिन्नत्वस्यैव बृहतीपदार्थत्वाद् वाग्वृहतीवदेषां लोकानामपि तत्तदनीन्द्रादिदेवावच्छेदकानां तल्लक्षणलक्षितत्वेन तथा तथा व्यवहतु मुशकत्वात् । तथा चेत्थं लोकानां प्रतिपन्ने छन्दस्वे छन्दोऽनुगतशब्दास्तत्रोपचर्यन्ते। तत्राप्यनुप्रजननसंबन्धात् , प्रक्रमसामान्याद्, अर्थयोगाच्च लोकत्रये व छेदत्रयशब्दसंबन्धः । तथा हि
"प्रजापतिरकामयत-प्रजायेयेति। स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधाय दशहोत्रातप्यत । तस्य चित्तिः जुगासीत् , चित्तमाज्यम् । तस्यैतावलेव वागासीत् । एतावान् यज्ञक्रतुः । स चतु)तारमसृजत । सोऽनन्दत्-असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्होत्रातप्यत। सोऽताम्यत् । स भूरिति व्याहरन् । स भूमिमसृजत-अग्निहोत्रं दर्शपूर्णमासौ यजूंषि ॥ १॥
स द्वितीयमत यत । सोऽताम्यत् । स भुरिति व्याहरत् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि। ( २ ) स तृतीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याहरत् । स दिवमसृजत। अग्निष्टोममुक्थमतिरात्रमृचः । (३) एता वै व्याहृतय इमे लोकाः । इमान खलु वे लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त ॥ .
इति तैत्तिरीयारण्यकश्रवणातू प्रथमे तपसि भूलोकमनु छन्दसः प्रथमस्य मानात्मनः, द्वितीये तपसि भुवलोकमनु छन्दसो द्वितीयस्य प्रमाणात्मनः, तृतीये तपसि खर्लोकमनु छन्दसस्तृतीयस्य प्रतिमानात्मनः प्रतिपत्तिरित्यनुप्रजननसंवन्धः ॥ अतश्च यथा लोकेष्वयं प्रथमोऽन्तरिक्षं मध्यमोऽसावुत्तमस्तथावच्छेदेषु मानं प्रथमः,प्रमाणं मध्यमः,प्रतिमानमुत्ता इति प्रक्रमसामान्यम् । अथ दिग्देशकालसंख्यावच्छेदानां पृथिव्यायत्ततया प्रथमोपस्थिततया च तत्र भाशब्दे प्रवृत्ते-'अयं वै लोको रथन्तरमसौ लोको बृहत् । अस्य वै लोक. स्यासी लोकोऽनुरूपोऽमुष्य लोकोऽनुरूपः ।' इत्येतरेयोक्तन्यायेनैतल्लोकानुरूपेऽमुष्मिन् लोके प्रतिमाशब्दो लब्धावसर इति तत्पारिशेष्यादन्तरिक्षे प्रमाशब्दोऽवतिष्ठते । उभयोरेवानयाद्यावापृथिव्योरन्तरिक्षे प्रतिष्ठितत्वात्तत्र प्रमाशब्दसाद्गुण्याच्च । तदित्यं गोण्या वृत्त्या लोकपराणामप्येषां ना-प्रमा-प्रतिमाशब्दानामवच्छेदविशेषार्थत्वं न विहन्यत इति सिद्धम्॥
तदित्थं मा-ग्रमा-प्रतिमात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राण एव वा रन्द इति लभ्यते । तत्रास्य प्राणस्यायमवच्छेदो यैरवयवभूतैरन्यान्यः प्राणः प्रसन्यते

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 322