SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ इत्युक्त्वा , "अथो देवच्छन्दसानि वा एतानि, देवच्छन्दसान्येवोपधत्ते। द्वादश द्वादशा- . मित उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती, बृहती खलु वै छन्दसां . खाराज्यमानशे।" इत्यादिना लोकानां देवच्छन्दस्त्वं बृहतीच्छन्दस्वं चोपपादितम् । षट्त्रिंशदक्षराः वच्छिन्नत्वस्यैव बृहतीपदार्थत्वाद् वाग्वृहतीवदेषां लोकानामपि तत्तदनीन्द्रादिदेवावच्छेदकानां तल्लक्षणलक्षितत्वेन तथा तथा व्यवहतु मुशकत्वात् । तथा चेत्थं लोकानां प्रतिपन्ने छन्दस्वे छन्दोऽनुगतशब्दास्तत्रोपचर्यन्ते। तत्राप्यनुप्रजननसंबन्धात् , प्रक्रमसामान्याद्, अर्थयोगाच्च लोकत्रये व छेदत्रयशब्दसंबन्धः । तथा हि "प्रजापतिरकामयत-प्रजायेयेति। स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधाय दशहोत्रातप्यत । तस्य चित्तिः जुगासीत् , चित्तमाज्यम् । तस्यैतावलेव वागासीत् । एतावान् यज्ञक्रतुः । स चतु)तारमसृजत । सोऽनन्दत्-असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्होत्रातप्यत। सोऽताम्यत् । स भूरिति व्याहरन् । स भूमिमसृजत-अग्निहोत्रं दर्शपूर्णमासौ यजूंषि ॥ १॥ स द्वितीयमत यत । सोऽताम्यत् । स भुरिति व्याहरत् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि। ( २ ) स तृतीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याहरत् । स दिवमसृजत। अग्निष्टोममुक्थमतिरात्रमृचः । (३) एता वै व्याहृतय इमे लोकाः । इमान खलु वे लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त ॥ . इति तैत्तिरीयारण्यकश्रवणातू प्रथमे तपसि भूलोकमनु छन्दसः प्रथमस्य मानात्मनः, द्वितीये तपसि भुवलोकमनु छन्दसो द्वितीयस्य प्रमाणात्मनः, तृतीये तपसि खर्लोकमनु छन्दसस्तृतीयस्य प्रतिमानात्मनः प्रतिपत्तिरित्यनुप्रजननसंवन्धः ॥ अतश्च यथा लोकेष्वयं प्रथमोऽन्तरिक्षं मध्यमोऽसावुत्तमस्तथावच्छेदेषु मानं प्रथमः,प्रमाणं मध्यमः,प्रतिमानमुत्ता इति प्रक्रमसामान्यम् । अथ दिग्देशकालसंख्यावच्छेदानां पृथिव्यायत्ततया प्रथमोपस्थिततया च तत्र भाशब्दे प्रवृत्ते-'अयं वै लोको रथन्तरमसौ लोको बृहत् । अस्य वै लोक. स्यासी लोकोऽनुरूपोऽमुष्य लोकोऽनुरूपः ।' इत्येतरेयोक्तन्यायेनैतल्लोकानुरूपेऽमुष्मिन् लोके प्रतिमाशब्दो लब्धावसर इति तत्पारिशेष्यादन्तरिक्षे प्रमाशब्दोऽवतिष्ठते । उभयोरेवानयाद्यावापृथिव्योरन्तरिक्षे प्रतिष्ठितत्वात्तत्र प्रमाशब्दसाद्गुण्याच्च । तदित्यं गोण्या वृत्त्या लोकपराणामप्येषां ना-प्रमा-प्रतिमाशब्दानामवच्छेदविशेषार्थत्वं न विहन्यत इति सिद्धम्॥ तदित्थं मा-ग्रमा-प्रतिमात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राण एव वा रन्द इति लभ्यते । तत्रास्य प्राणस्यायमवच्छेदो यैरवयवभूतैरन्यान्यः प्राणः प्रसन्यते
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy