SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ नकत्वेन वा छन्दस्त्वमिष्यतेः अपि तु म्वरूपसंवरकन्वेनेति पदार्थनावच्छेदकमेदादपोनरुत्यम | ननु ‘मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा छन्दः', 'इयं वै मा, अन्तरिक्षं प्रमा, असो प्रतिमा, इमानेव लोकानुपधत्ते' इत्यग्निचितिमन्धश्रवणालोकत्रयाभिप्रायतया परिभाषितैर्माप्रमाप्रतिमाशब्दानाद्यवच्छेदग्रहणमयुक्तमिति चन्न । चैत्रमैत्री नृपतेर्हस्तावितिवत्तेषां गोणशब्दत्वात् । अन्यथा---'अथ जुहूम् , अथोपभृतम् , अथ ध्रुवाम् । असौ वै जुहूः, अन्तरिक्षमपभ्रत्, पृथिवी ध्रुवा। इमे वै लोकाः सुचः । वृष्टिः संमार्जनानि । वृष्टिवा दमोलोकाननुपूर्व कल्पयति । तं ततः क्लुप्ताः समेधन्ते ।' (ते. ब्रा. ३ का. ३ प्र. १ अ.) इत्यादिभिरुपचारविशेषः जुगादयोऽपि खार्थादपभ्रश्येरन् ॥ एवम् "मा छन्दः, तत्पृथिवी, अग्निदेवता ॥१॥ प्रमा छन्दः, तदन्तरिक्षम् , वातो देवता ॥ २ ॥ प्रतिमा छन्दः, तद् द्यौः, सूर्यो देवता ॥ ३ ॥ अस्रीवि छन्दः, तद्दिशः, सोमो देवता ॥ ४॥ . विराट् छन्दः, तद्वाक्, वरुणो देवता ॥५॥ गायत्री छन्दः, तदजा, बृहस्पतिर्देवता ॥ ६ ॥ त्रिष्टुप् छन्दः, तद्धिरण्यम् , इन्द्रो देवता ॥ ७ ॥ जगती छन्दः, तद्गोंः, प्रजापतिर्देवता ॥८॥ अनुष्टुप् छन्दः, तद्वायुः, मित्रो देवता ॥९॥ उष्णिहा छन्दः, तचक्षुः, पूषा देवता ॥ १० ॥ पश्छिन्दः, तत्कृषिः, पर्जन्यो देवता ॥ ११ ॥ बृहती छन्दः, तदश्वः, परमेष्ठी देवता ॥ १२॥" इलापस्तम्बश्रौत ( १६ । २८।१) सूत्रोक्ते प्रकरणविशेषे माप्रमादिवद् विराड्गायत्र्यादीनामपि वागजाद्यभिप्रायतया प्रयोगात् समानन्यायात् प्रकृतार्थपरत्वं व्याहन्येत । अत एव “सावित्ररभ्रिमादत्ते प्रसूत्यै। चतुर्भिरादत्ते, चत्वारि वै छन्दांसि, छन्दोभिरेवादत्ते । अथो ब्रह्म वै छन्दांसि । ब्रह्मणैवादत्ते । इयं वै गायत्री। अन्तरिक्षं त्रिष्टुप् , द्यौर्जगती, दिशोऽनुष्टुप् । सवितप्रसूतो वा एनंदभ्यो लोकेभ्यश्छन्दोभिर्दिग्भ्यश्चानिं संभरति ॥” इत्यमिचितिप्रकरणाम्नानाद गायत्रीत्रिष्टुब्जगत्यनुटुभां लोकदिक्परतया प्रतिपादितानामपि नैकान्ततः म्बार्थापलापः प्रसज्यते। अत एव च "इयं वै मा-अन्तरिक्षं प्रमा-अमी प्रतिमा-इमानेव लोकानुपधत्ते।"
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy