SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तत्रैवं व्यक्तिभावप्रधानं दिग्देशकालसंविसंख्यारूपमवच्छेदं परिच्छेदसीमामर्यादाभिः विधिनियतिनीतिरीतिव्यवस्थामिति मानापरपर्यायं मानाभिधायिना माशब्देन, आकृ. तिभावप्रधानमगुत्वमहत्त्वह्रखत्वदीर्घ वनियामकसंनिवेशरूपमवच्छेदं प्रतिष्टायतनाशय परिमाणप्रमाणापरपर्यायं प्रमाणाभिधायिना प्रमाशब्देन, जातिभावप्रधानं च समा मद्रव्यगुणकर्मरूपमवच्छेदं साधर्म्यसामान्यसादृश्यसारूप्यतुलितकप्रतिमितिप्रतिमानापरपर्यायं प्रतिमानाभिधायिना प्रतिमाशब्देनोल्लिख्य छन्दस्त्वं विधीयते । मा च्छन्दः प्रमा च्छन्दः, प्रतिमा च्छन्द इति । दृश्यते च'अस्तन्नाद् द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्याः । आसीदद् विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ॥ १ ॥' 'गायत्रेण प्रतिमिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।। वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ २ ॥ (ऋ. २ अ. ३ अ. १८ व.) इत्यादिषु दैशिकसांख्यानिकमर्यादाभिप्रायकत्वं माशब्दस्य, . 'यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् । दिवं यश्चके मूर्धानं तस्मै ज्येष्टाय ब्रह्मणे नमः ॥' (अथर्वमं.) इत्यादिषु प्रतिष्टाभिप्रायकत्वं प्रमाशब्दस्य, 'संवत्सरप्रतिमा वै द्वादश रात्रयः ॥' (ब्राह्मणम् ) . 'द्वादश वै रात्रयः संवत्सरस्य प्रतिमा ॥' (ब्राह्मणम् ) इत्यादिषु तुलितकाभिप्रायकत्वं प्रतिमाशब्दस्य ॥ तथा च मा-प्रमा-प्रतिमाशब्दैरुल्लिखितस्य त्रिविधस्याप्यवच्छेदस्य वस्तुखरूपसंवरकत्वेनाभिप्रेतस्य छन्दस्त्वं वचनतः मिदं भवति । ननु प्रमाप्रतिमयोरपि छन्दस्त्वेऽभ्युपगम्यमाने 'कासीत् प्रमा प्रतिमा किं निदानमाज्यं किमासीत् परिधिः क आसीन । छन्दः किमासीत् प्रउगं किमुक्थं यद्देवा देवमयजन्त विशे॥' (ऋ. ८ अ. ७ अ. १८ व. ) इति मन्त्रे प्रमाप्रतिमयोश्छन्दःपार्थश्येनोपादानं विरुध्यत इति चेत्तन्न । "तस्माद् यशात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ आदिल्या विश्व मरुतश्च विश्वे देवाश्च विश्व का चि बिश्व । इन्दो आंग्नरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः मदा न ।' इस्येवमादिषु विशेषोपादामे सामाम्यशणस्य विशेषतापरप्रामापि मामा तात्पर्य कायम पारिताध्यात् ।'
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy