Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications
View full book text
________________
तत्रैवं व्यक्तिभावप्रधानं दिग्देशकालसंविसंख्यारूपमवच्छेदं परिच्छेदसीमामर्यादाभिः विधिनियतिनीतिरीतिव्यवस्थामिति मानापरपर्यायं मानाभिधायिना माशब्देन, आकृ. तिभावप्रधानमगुत्वमहत्त्वह्रखत्वदीर्घ वनियामकसंनिवेशरूपमवच्छेदं प्रतिष्टायतनाशय परिमाणप्रमाणापरपर्यायं प्रमाणाभिधायिना प्रमाशब्देन, जातिभावप्रधानं च समा मद्रव्यगुणकर्मरूपमवच्छेदं साधर्म्यसामान्यसादृश्यसारूप्यतुलितकप्रतिमितिप्रतिमानापरपर्यायं प्रतिमानाभिधायिना प्रतिमाशब्देनोल्लिख्य छन्दस्त्वं विधीयते । मा च्छन्दः प्रमा च्छन्दः, प्रतिमा च्छन्द इति । दृश्यते च'अस्तन्नाद् द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्याः । आसीदद् विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ॥ १ ॥' 'गायत्रेण प्रतिमिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।। वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ २ ॥
(ऋ. २ अ. ३ अ. १८ व.) इत्यादिषु दैशिकसांख्यानिकमर्यादाभिप्रायकत्वं माशब्दस्य, . 'यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् ।
दिवं यश्चके मूर्धानं तस्मै ज्येष्टाय ब्रह्मणे नमः ॥' (अथर्वमं.) इत्यादिषु प्रतिष्टाभिप्रायकत्वं प्रमाशब्दस्य,
'संवत्सरप्रतिमा वै द्वादश रात्रयः ॥' (ब्राह्मणम् ) .
'द्वादश वै रात्रयः संवत्सरस्य प्रतिमा ॥' (ब्राह्मणम् ) इत्यादिषु तुलितकाभिप्रायकत्वं प्रतिमाशब्दस्य ॥ तथा च मा-प्रमा-प्रतिमाशब्दैरुल्लिखितस्य त्रिविधस्याप्यवच्छेदस्य वस्तुखरूपसंवरकत्वेनाभिप्रेतस्य छन्दस्त्वं वचनतः मिदं भवति । ननु प्रमाप्रतिमयोरपि छन्दस्त्वेऽभ्युपगम्यमाने
'कासीत् प्रमा प्रतिमा किं निदानमाज्यं किमासीत् परिधिः क आसीन । छन्दः किमासीत् प्रउगं किमुक्थं यद्देवा देवमयजन्त विशे॥'
(ऋ. ८ अ. ७ अ. १८ व. ) इति मन्त्रे प्रमाप्रतिमयोश्छन्दःपार्थश्येनोपादानं विरुध्यत इति चेत्तन्न ।
"तस्माद् यशात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ आदिल्या विश्व मरुतश्च विश्वे देवाश्च विश्व का चि बिश्व ।
इन्दो आंग्नरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः मदा न ।' इस्येवमादिषु विशेषोपादामे सामाम्यशणस्य विशेषतापरप्रामापि मामा तात्पर्य कायम पारिताध्यात् ।'

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 322