Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 15
________________ अत.एव "सोमस त्वा धुनेनाभिषिञ्चामि, अमेखेजसा, सूर्यस्य वर्चसा इन्द्रस्येन्द्रियेण, मित्रावरुणयोर्यण, मरुतामोजसा ।” इति (ते. सं.) . एवमादिमन्त्रैः सोमाद्यधिदैवतानामध्यात्मं द्युम्नादिधर्मरूपेण परिणतावस्थत्वमेव तत्तदप्रयोजकत्व बोध्यते । एत एव च देवप्रयका धर्मास्तदात्मनः खभाव इत्युच्यते तस्य दैविध्यमाहोज्ज्वलदत्तः 'बहिर्हेत्वनपेक्षी तु खभावोऽथ प्रकीर्तितः । निसर्गश्च खभावश्च इत्येव भवति द्विधा ॥१॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते। . . अजन्यस्तु खतःसिद्धः खरूपो भाव उच्यते ॥२॥ एतत्संस्कारात्मकनिसर्गसिद्ध्यर्थमेवाध्ययनतपश्चर्यायोगाभ्यासादिकर्माण्युपयुज्यन्त इत्य. प्यवधेयम् ॥ उपादानद्रव्याणि स्थायिभावाः । एवमेते त्रयो भावा उक्ताः, ते.च प्राणिनामात्मभूता इभ्यन्ते । तत्रापि आश्रयभावो जीवात्मा, प्रयोजकभावोऽन्तरात्मा, स्थायिभावो भूतात्मा । यस्य सत्तया यस्य सत्ता स तस्यात्मा । स च प्रत्यर्थ त्रेधेति तत्र तत्रोपेक्ष्यम् । अथ येऽनात्मभूता अप्यपृथक्भूता विशेषतो व्यभिचारिणोऽपि सामान्यतो नित्यानुगता बाह्याने व्याकभावा दिग्देशकालसंवित्संख्यापरिमाणसाधाणि । एत एव व्याकभावा इहावच्छेदकशब्देनेष्यन्ते । एतैरवच्छिन्नमेव किंचि' द्वस्तु व्यज्यते । तत्र परिमाणं नामावयवसंनिवेशानुरोधेनं जायमानमणुत्वमहत्वंहखत्वदीर्घत्वादिरूपम् ।. साधम्यं तु समानद्रव्यगुणकर्मकत्वम् । नैतान्यमय पर किंचिदपि खरूपं धत्त इत्यवच्छेदकानामेषां तद्वस्तुखरूपस्थितिनियामकप्राणमात्रारूप्राणां तद्वस्तुच्छन्दस्त्वमिष्यते । अथान्ये व्यभिचारिणः सर्वे धर्माः संचारिभावाः । यथा आद्रत्वोंष्णत्ववेशभूषादयः सांयौगिकार्याः । एतेऽप्यनात्मभूता एव । तेषां सत्त्वासत्त्वयोस्तद्वस्तुखरूपस्य तटस्थत्वात् । तदित्यं प्रत्यर्थ धर्माणां पञ्च प्रकरणानि । तत्र चतुर्थप्रकरणपदार्या अवच्छेदा इति संसिद्धम् ॥ तत्र तावद्दिग्देशकालसंवित्संख्याप्राधान्येन गृहोतास्तेऽवच्छेदा इतरे गुणा वा तद्वस्तुनो व्यक्तिः । एतेषां भेदकानां भेदादेव पृथगात्मत्वोपचारात् । अथ परिमाणप्राधान्येन गृहीतास्ते तद्वस्तुन आकृतिः । एमिरेव भेदकहीतरस्तीदमिदमिति बुद्धौ तदा करणात् । एवं साधर्म्या ...न्येन ग्रहणे ते तद्वस्तुनो जातिः । इतरकालिकेतरघटाकाराकारितान्तःकर वृत्त्या प्रत्युत्पनैतद्धटाकाराकारितान्तःकरणवृत्तेः सामान्येनोदयात्तत्प्रयोजकस्य तद्वस्तुगतसाधोपलक्षितपरिमाणदेश्चैकत्वाभिमानात् । तत्र साधन्य समानप्रसवप्रकारनिबन्धनमेवेह विवक्षितमित्यतस्तत्र जातिशब्दो रूढः । अत एव मृद्रवके गोसाजात्यनिरासः । जातिरखण्डोपाधिरिति तु केषांचिदपदार्थकल्पना. मात्रम् । एतासां व्यक्त्याकृतिजातीनां समवायस्तु पदार्थः । यतु "धर्मविशेषप्रसू.

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 322