________________
अत.एव
"सोमस त्वा धुनेनाभिषिञ्चामि, अमेखेजसा, सूर्यस्य वर्चसा इन्द्रस्येन्द्रियेण, मित्रावरुणयोर्यण, मरुतामोजसा ।” इति (ते. सं.) .
एवमादिमन्त्रैः सोमाद्यधिदैवतानामध्यात्मं द्युम्नादिधर्मरूपेण परिणतावस्थत्वमेव तत्तदप्रयोजकत्व बोध्यते । एत एव च देवप्रयका धर्मास्तदात्मनः खभाव इत्युच्यते तस्य दैविध्यमाहोज्ज्वलदत्तः
'बहिर्हेत्वनपेक्षी तु खभावोऽथ प्रकीर्तितः । निसर्गश्च खभावश्च इत्येव भवति द्विधा ॥१॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते। . .
अजन्यस्तु खतःसिद्धः खरूपो भाव उच्यते ॥२॥ एतत्संस्कारात्मकनिसर्गसिद्ध्यर्थमेवाध्ययनतपश्चर्यायोगाभ्यासादिकर्माण्युपयुज्यन्त इत्य. प्यवधेयम् ॥ उपादानद्रव्याणि स्थायिभावाः । एवमेते त्रयो भावा उक्ताः, ते.च प्राणिनामात्मभूता इभ्यन्ते । तत्रापि आश्रयभावो जीवात्मा, प्रयोजकभावोऽन्तरात्मा, स्थायिभावो भूतात्मा । यस्य सत्तया यस्य सत्ता स तस्यात्मा । स च प्रत्यर्थ त्रेधेति तत्र तत्रोपेक्ष्यम् । अथ येऽनात्मभूता अप्यपृथक्भूता विशेषतो व्यभिचारिणोऽपि सामान्यतो नित्यानुगता बाह्याने व्याकभावा दिग्देशकालसंवित्संख्यापरिमाणसाधाणि । एत एव व्याकभावा इहावच्छेदकशब्देनेष्यन्ते । एतैरवच्छिन्नमेव किंचि' द्वस्तु व्यज्यते । तत्र परिमाणं नामावयवसंनिवेशानुरोधेनं जायमानमणुत्वमहत्वंहखत्वदीर्घत्वादिरूपम् ।. साधम्यं तु समानद्रव्यगुणकर्मकत्वम् । नैतान्यमय पर किंचिदपि खरूपं धत्त इत्यवच्छेदकानामेषां तद्वस्तुखरूपस्थितिनियामकप्राणमात्रारूप्राणां तद्वस्तुच्छन्दस्त्वमिष्यते । अथान्ये व्यभिचारिणः सर्वे धर्माः संचारिभावाः । यथा आद्रत्वोंष्णत्ववेशभूषादयः सांयौगिकार्याः । एतेऽप्यनात्मभूता एव । तेषां सत्त्वासत्त्वयोस्तद्वस्तुखरूपस्य तटस्थत्वात् । तदित्यं प्रत्यर्थ धर्माणां पञ्च प्रकरणानि । तत्र चतुर्थप्रकरणपदार्या अवच्छेदा इति संसिद्धम् ॥
तत्र तावद्दिग्देशकालसंवित्संख्याप्राधान्येन गृहोतास्तेऽवच्छेदा इतरे गुणा वा तद्वस्तुनो व्यक्तिः । एतेषां भेदकानां भेदादेव पृथगात्मत्वोपचारात् । अथ परिमाणप्राधान्येन गृहीतास्ते तद्वस्तुन आकृतिः । एमिरेव भेदकहीतरस्तीदमिदमिति बुद्धौ तदा करणात् । एवं साधर्म्या ...न्येन ग्रहणे ते तद्वस्तुनो जातिः । इतरकालिकेतरघटाकाराकारितान्तःकर वृत्त्या प्रत्युत्पनैतद्धटाकाराकारितान्तःकरणवृत्तेः सामान्येनोदयात्तत्प्रयोजकस्य तद्वस्तुगतसाधोपलक्षितपरिमाणदेश्चैकत्वाभिमानात् । तत्र साधन्य समानप्रसवप्रकारनिबन्धनमेवेह विवक्षितमित्यतस्तत्र जातिशब्दो रूढः । अत एव मृद्रवके गोसाजात्यनिरासः । जातिरखण्डोपाधिरिति तु केषांचिदपदार्थकल्पना. मात्रम् । एतासां व्यक्त्याकृतिजातीनां समवायस्तु पदार्थः । यतु "धर्मविशेषप्रसू.