Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 11
________________ इत्येवमादिभिर्वेदप्रमाणैः सिद्धेऽपि सूर्यस स्थिरत्वे, पृथिव्याश्चलत्वे वैपरीत्येनानृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ "स एष वा न कदाचनास्तमेति, नोदेति । तं यदस्तमेतीति मन्यन्ते, अह एव तदन्तमित्वा अथात्मानं विपर्यस्यते । रात्रीमेवावस्तात् कुरुते, अहः परस्तात् ॥ अथ यदेनं प्रातरुदेतीति मन्यन्ते-रात्रेव तदन्तमित्वा अथात्मानं विपर्यस्यते; अहरेवावस्तात् कुरुते, रात्री परस्तात् । स वा एष न कदाचन निम्लोचति ॥” इत्येवमैतरेयादिश्रुत्या स्पष्टमेवाहोरात्रयोः पृथिवीगतिनिमित्तकत्वे सिद्धेऽप्यनृतं सूर्यगतिनिमित्तकत्वं सूर्यास्तमनं च व्यवहारतः प्रतिपबन्ते, न तु सन्तमर्थम् ॥ __ एवं घटशब्दप्रयोजकाकाराकारितान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात्तदभिन्नतयैवैकत्वेन प्रतिपनस्य मृत्तिकाणुविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छेदेन घटशब्दसंकेतसिध्या तत्तद्यवहारोपपत्तौ सिद्धायामपि समवायेनावयवेषूत्पमोऽवयवातिरिक्तोऽपूर्वः कश्चिदवयवी घटशब्दवाच्य इत्येवमनृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥ किंबहुना ? लोके हि सर्वत्रैवार्थे प्रतिपत्तिस्त्रिविधा दृष्टा-पारमार्थिकी, व्यावहारिकी, प्रातिभासिकी चेति । पारमार्थिकी, आर्थिकी, वास्तविकीत्यनान्तरम् । व्यावहारिकी, औपयोगिकी, औपचारिकीत्यनान्तरम् । प्रातिभासिकी, आध्यासिकी, वैकल्पिकीत्यनान्तरम् । यथा काचे स्फटिकबुद्धिराध्यासिकी, काचे काचबुद्धिरौपयोगिकी, काचे मृदुद्धि रार्थिकी । एवं पृथिव्यपेक्षया सूर्यस्य कूटस्थता वास्तविकी, पृथिवीं परितः सूर्यस्य वार्षिकगतिः पूर्वाभिमुखीना औपचारिकी, पृथिवीं परितः सूर्यस्य दैनंदिनगतिः पश्चिमाभिमुखीना प्रातिभासिकी-इत्येवं सर्वत्र त्रैविध्यं द्रष्टवत तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्तविक्याः सत्यत्वमेव, व्यावहारिक्याः सत्यासत्यत्वम् । अन्यथा सतोऽपि व्यवहारसिद्ध्यनुगेधेनान्यथा प्रकल्पितरूपस्य लोके उपयोगदर्शनात् ॥ ___ एतदभिप्रायेगेव 'नानृतं वदेत्' इति प्रतिज्ञाय--"अथो खल्वाहुः-कोऽर्हति मनुष्य. सर्व सत्यं वदितुम् । सत्यसंहिता वै देवाः, अनृतसंहिता मनुष्याः।" इत्यतरेयके, 'द्वयं वा इदं न तृनीसमरित सत्यं चैवानृतं च । सत्यं देवाः, अनृतं मनुष्याः ।' इति शतपथश्रुती च व्यवहारसापेक्षत्वेऽनृतनिष्टत्वान्मनुष्यत्यम् , वस्तुनद्रूपसापेक्षत्वे तु सत्यनिष्ठत्वादेवत्वमुपदिणं महर्षिभिः । अत एव च-'शतं वर्षाणि जीव्यासमित्याह । तदेवन्नाद्रियेत । अपि हि भयांसि शताद्वर्षेभ्यः पुरुषो जीवति ॥' इति शतपथश्रुती स्पष्टमेव लौकिकपतिपत्तिमूलकव्यवहारस्यानादरणीयत्वमुपदिश्यते । तस्मान्नैतादृशलोकिकप्रतिपत्त्यभावमनुरुध्य कश्चिदर्थः प्रमाणसिद्धः शक्यते प्रत्याख्यानुमिति दिक। अथ न खापतोऽमत्वमप्रसिद्धिः । छादकत्वम्यव छन्दःपदशक्यतावच्छेदकतया. तत्र तदसत्त्वानवलप्तेः । न च स्यादेवमाच्छादकत्वं यदि तावच्छन्दस्वं मानादीनां प्रमाणसिद्ध स्यादिति वाच्यम् : 'मा च्छन्दः, प्रमा च्छन्दः प्रतिमा च्छन्दः' इति शुन्या

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 322