Book Title: Chandraprabha Hemkaumudi Author(s): Meghvijay Publisher: Jain Shreyaskar Mandal Mahesana View full book textPage 7
________________ अथ चन्द्रप्रभा (हैम कौमुदी ) | श्रीवीतरागाय नमः । —(ffanter me प्रणम्य श्रीमदर्हन्तं, सुबोधां प्रक्रियां ब्रुवे । चन्द्रप्रभाभिधां सिद्ध हेमचन्द्रानुसारिणीम् ॥ १ ॥ श्रीहेमचन्द्राचार्य्याय नमः स्मायय सिद्धये । यत्प्रभावान्मनीषा मे न स्खलेत्कुत्रचिद्विधौ ॥ २ ॥ अर्हम् ॥ १|१|१॥ अर्हमित्यक्षरं परमेश्वरवाचकं शास्त्रादौ प्रणिधेयम् । सिद्धिः स्याद्वादात् ॥ ११२ ॥ नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । ततः प्रकृतानां शब्दानां सिद्धितिर्वा ज्ञेया । एकस्यैव हस्वदीर्घादिविधानं नानाकारकसंयोगः सामानाधिकरण्यादिकं च स्याद्वादं विना न घटते । लोकात् ॥ १|१|३॥ इहानुक्तं (यत्) संज्ञान्यायवर्णाम्नायादि तदन्येभ्यो वैयाकरणादिभ्यो ज्ञेयम् । अतः परेभ्य एव वर्णसमाम्नायो वेद्यः । तत्र औदन्ताः स्वराः ॥ १॥१॥४॥ अकाराद्या औकारपर्यन्ता वर्णाः खरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋ ऌ लू ए ऐ ओ औ । एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ ११५ ॥ मात्रा वर्णोच्चारणसमयविशेषः । एकद्वित्र्युच्चारणमात्राः खरा हुखदीर्घसुतसंज्ञाः स्युः । अ इ उ ऋ ऌ हखाः । आ ई ऊ ऋ ऌ ए ऐ ओ औ दीर्घाः । हवा एकमात्राः । द्विमात्रा दीर्घाः । अ ३ इ ३ उ ३ इत्याद्यास्त्रिमात्राः छताः । खरकथनाद्व्यञ्जनमर्द्धमाश्रकमिति अर्धमात्रिकयोर्व्यञ्जनयोः ह्रस्वसंज्ञाया अभावात्प्रतक्ष्य इत्यत्र तोऽन्तो न भवति । समुदायैकमात्रत्वेPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 516