Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana
View full book text
________________
अनन्तः पञ्चम्याः प्रत्ययः ॥१॥१॥३८॥ पञ्चम्यर्थाद्विधीयमानः शब्दः प्रत्ययसंज्ञः स्यात् । अन्तशब्दोचारणेन चेन्न विधीयते । इति संज्ञाप्रक्रिया ॥
अथ परिभाषाप्रकरणम् । ब्रामीमयस्तमोभेदी, कमलोल्लाससिद्धिदः।
श्रीनाभेयश्चिरं जीयान्मूलराजो जिनेश्वरः ॥१॥ नामिनो गुणवृद्धी । गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र ना. मिन इति पदमुपास्थेयम् । खरस्य ह्रखदीर्घप्लुताः।
आसन्नः ॥७।४।१२०॥ इहासन्नानासन्नप्रसङ्गे यथाखं स्थानार्थप्रमाणादिभिरासन्न एव विधिः स्यात् ।
सप्तम्या पूर्वस्य ॥७४।१०५॥ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्याऽनन्तरस्य स्थाने स्यात् । पञ्चम्या निर्दिष्टे परस्य ॥७।४।१०४॥
षष्ट्याऽन्त्यस्य ॥७।४।१०६॥ षष्ठीनिर्देशेन यत्कार्यमुच्यते तत्तस्यान्त्यवर्णस्य स्थाने स्यात् ।
अनेकवर्णः सर्वस्य ॥७।४।१०७॥ अनेकवर्ण आदेशः षष्ठ्या निर्दिष्टेऽपि सर्वस्य स्यात् ।
प्रत्ययस्य ॥७।४।१०८॥ प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्य स्यात् ।
प्रत्ययः प्रकृत्यादेः ॥७४॥११५॥ यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः। प्रत्ययःप्रकृत्यादेः समुदायस्थ विशेषणं स्यात् नोनाधिकस्य । परान्नित्यं, नित्यादन्तरङ्गम्, अन्तरङ्गाचानवकाशं बलीय उत्तरोत्तरतया। असिद्धं बहिरङ्गमन्तरङ्गे । नानिष्टार्थों शास्त्रप्रवृत्तिः। इति परिभाषाविशेषः ॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 516