Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana

View full book text
Previous | Next

Page 13
________________ अथ स्वरसन्धिप्रकरणम् । समानानां तेन दीर्घः ॥ १|२| १ || समानवर्णानां तेन तज्जातीयेन परेण समानेन सहितानां दीर्घः स्यात् । आसन्नः, द्वयोः पूर्वपरयोः स्थाने एको दीर्घः स्यादिति सहार्थः । लोकात्संहिता । व्यञ्जनमखरं परेण संयोज्यमित्यर्थः । वृषभ अग्रे अजितौ इति स्थिते वृषभाजितौ इति जातम् । एवं दधि इदं दधीदम् । मनु उदयः मनूदयः । पितृ ऋषभः पितृषभः । ललकारः ऌकारः । तथ आस्यं तवास्यम् । श्रद्धा आगता श्रद्धाssगतां । मुनि ईशः मुनीशः । श्री इष्टा श्रीष्टा । ॠलति ह्रस्वो वा ॥ १२२ ॥ समानानामृकारे लकारे च परे हस्रो वा स्यात् । महा ऋषिः महऋषिः । कन्या लकारः कन्यऌकारः । पक्षे महर्षिः । कन्यल्कारः । हस्वविधानेन कार्यान्तरं न स्यादिति हस्वस्यापि ह्रस्वः । बाल ऋश्यः । पक्षे बालर्यः । नव ऋषिः । नवर्षिः । कश्चित्तु त्वाभाषपक्षे सन्धिमेव न मनुते । तेन खट्टा ऋश्य इत्यप्याह । ऋस्तयोः ॥ १२॥५॥ कारऋकारयोः स्थाने यथासंख्यं परेण ऋता ऌता च सहितयोकारो द्विमात्र आदेशः स्यात् । ऌ ऋषभः ऋषभः । होतृ लकारः होतृकारः । ऌत ऋलृ ऋऌभ्यां वा ॥ १|२|३|| अत्र पूर्वकारस्य परेण ऋकारेण सह ऋ इत्यादेशोऽपि विकल्पेन स्यात् । स च रेफद्वयात्मकः । ऋकारस्खरयुक्तश्च । एवं द्विमात्रः । द्वाभ्यां रेफाभ्यामेका मात्रा, द्वितीया ऋकारस्येति । एवं पूर्वऌकारस्य परेण लकारेण सह वा लू हत्यादेशोऽपि । द्वौ लकारौ । तयोश्चैका मात्रा, एका लकारखरस्य इति द्विमात्रिकता ज्ञेया । खरव्यञ्जनसमुदायरूपावेतौ । ऋतो वा तौ च ॥ १२४ ॥ पूर्वऋकारस्यापि परेण ऋता सह ऋ इत्ययं, परेण लता सह ल इत्ययं चादेशो ज्ञेयः । ऋता - पितृषभः पितृषभः पितृऋषभः । लता-होल्लुकार होतृकारः होकार इत्यादि । अवर्णस्येवर्णादिनैदोदरल ॥१२॥६॥ अवर्णस्य स्थाने इवर्ण-वर्ण-ऋवर्ण-लवर्णैः परैः सह यथासंख्यमेत् ओत् अर अल इत्येत आदेशाः स्युः । जिन ईशः जिनेशः । देव इष्टः देवेष्टः । माला

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 516