Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana

View full book text
Previous | Next

Page 11
________________ वर्जयित्वा । प्रादिर्गतिसंज्ञोऽपि क्रियाप्रयोगे । प्रादयश्चादावन्तर्गणरूपा निपाताः । प्र परा अप सम् अनु अव निस् दुस् एतौ रान्तावपि । वि आङ् नि प्रति परि उप अधि अपि सु उद् अति अभि । नवेत्यव्ययं विभाषायाम् । स्वं रूपं शब्दस्याशब्दसंज्ञायाम् । शब्दस्य स्वं रूपं संज्ञि स्यात् शब्दशास्त्रे या संज्ञा तां विमुच्य । विशेषणमन्तः ॥७|४|११३॥ विशेषणं विशेष्यसमुदायस्यान्तः अवयवः स्यात् । अतः स्यमोत् (१/४/५७) अन्नात इत्युक्तेऽकारान्तसमुदायो ह्यादीयते । विरामः शब्दावसानम् । वर्णानां सन्निधिना कथनं संहितासंज्ञम् । स्वौजसमौशस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुपां त्रयी त्रयी प्रथमादिः ॥ १|१|१८॥ यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा-द्वितीया तृतीया - चतुर्थीपञ्चमी-षष्ठी - सप्तमी संज्ञा स्यात् । स्त्यादिर्विभक्तिः ॥ ११॥१९॥ स्यादयस्त्यादयश्च प्रत्ययाः सुपस्यामहिपर्यन्ता विभक्तिसंज्ञाः स्युः । तदन्तं पदम् ॥ १|१/२०॥ स्वाद्यन्तं त्याद्यन्तं च शब्दरूपं पदसंज्ञं स्यात् । खरानन्तरितो व्यञ्जनसमुदायः संयोगः । 'दीर्घा विसर्गानुखारयुक्संयोगपरो गुरुः । असंयोगपरो हखो विसर्गाद्युज्झितो लघुः ॥ १ ॥ -सविशेषणमारव्यातं वाक्यम् ॥ ११॥२६॥ त्याद्यन्तं पदमाख्यातम् । विशेषणैः प्रयुज्यमानैरितरैर्वा सहितं प्रयुज्यमानमन्यद्वाऽऽख्यातं वाक्यसंज्ञं स्यात् । धर्मो वो रक्षतु । धर्मो नो रक्षतु इत्यादि । अप्रयोगीत् ॥ १|१|३७॥ इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा कार्यार्थमुपाहितो यो लौकिके शब्दप्रयोगे न दृश्यते स एत्यापगच्छतीति इत्संज्ञः स्यात् । प्राप्तस्य वर्णस्य तत्समुदायस्य वाऽदर्शन विधिर्लुलुप्लोपसंज्ञः स्यात् ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 516