________________
अथ स्वरसन्धिप्रकरणम् ।
समानानां तेन दीर्घः ॥ १|२| १ ||
समानवर्णानां तेन तज्जातीयेन परेण समानेन सहितानां दीर्घः स्यात् । आसन्नः, द्वयोः पूर्वपरयोः स्थाने एको दीर्घः स्यादिति सहार्थः । लोकात्संहिता । व्यञ्जनमखरं परेण संयोज्यमित्यर्थः । वृषभ अग्रे अजितौ इति स्थिते वृषभाजितौ इति जातम् । एवं दधि इदं दधीदम् । मनु उदयः मनूदयः । पितृ ऋषभः पितृषभः । ललकारः ऌकारः । तथ आस्यं तवास्यम् । श्रद्धा आगता श्रद्धाssगतां । मुनि ईशः मुनीशः । श्री इष्टा श्रीष्टा ।
ॠलति ह्रस्वो वा ॥ १२२ ॥
समानानामृकारे लकारे च परे हस्रो वा स्यात् । महा ऋषिः महऋषिः । कन्या लकारः कन्यऌकारः । पक्षे महर्षिः । कन्यल्कारः । हस्वविधानेन कार्यान्तरं न स्यादिति हस्वस्यापि ह्रस्वः । बाल ऋश्यः । पक्षे बालर्यः । नव ऋषिः । नवर्षिः । कश्चित्तु त्वाभाषपक्षे सन्धिमेव न मनुते । तेन खट्टा ऋश्य इत्यप्याह । ऋस्तयोः ॥ १२॥५॥
कारऋकारयोः स्थाने यथासंख्यं परेण ऋता ऌता च सहितयोकारो द्विमात्र आदेशः स्यात् । ऌ ऋषभः ऋषभः । होतृ लकारः होतृकारः । ऌत ऋलृ ऋऌभ्यां वा ॥ १|२|३||
अत्र पूर्वकारस्य परेण ऋकारेण सह ऋ इत्यादेशोऽपि विकल्पेन स्यात् । स च रेफद्वयात्मकः । ऋकारस्खरयुक्तश्च । एवं द्विमात्रः । द्वाभ्यां रेफाभ्यामेका मात्रा, द्वितीया ऋकारस्येति । एवं पूर्वऌकारस्य परेण लकारेण सह वा लू हत्यादेशोऽपि । द्वौ लकारौ । तयोश्चैका मात्रा, एका लकारखरस्य इति द्विमात्रिकता ज्ञेया । खरव्यञ्जनसमुदायरूपावेतौ ।
ऋतो वा तौ च ॥ १२४ ॥
पूर्वऋकारस्यापि परेण ऋता सह ऋ इत्ययं, परेण लता सह ल इत्ययं चादेशो ज्ञेयः । ऋता - पितृषभः पितृषभः पितृऋषभः । लता-होल्लुकार होतृकारः होकार इत्यादि ।
अवर्णस्येवर्णादिनैदोदरल ॥१२॥६॥
अवर्णस्य स्थाने इवर्ण-वर्ण-ऋवर्ण-लवर्णैः परैः सह यथासंख्यमेत् ओत् अर अल इत्येत आदेशाः स्युः । जिन ईशः जिनेशः । देव इष्टः देवेष्टः । माला