SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अनन्तः पञ्चम्याः प्रत्ययः ॥१॥१॥३८॥ पञ्चम्यर्थाद्विधीयमानः शब्दः प्रत्ययसंज्ञः स्यात् । अन्तशब्दोचारणेन चेन्न विधीयते । इति संज्ञाप्रक्रिया ॥ अथ परिभाषाप्रकरणम् । ब्रामीमयस्तमोभेदी, कमलोल्लाससिद्धिदः। श्रीनाभेयश्चिरं जीयान्मूलराजो जिनेश्वरः ॥१॥ नामिनो गुणवृद्धी । गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र ना. मिन इति पदमुपास्थेयम् । खरस्य ह्रखदीर्घप्लुताः। आसन्नः ॥७।४।१२०॥ इहासन्नानासन्नप्रसङ्गे यथाखं स्थानार्थप्रमाणादिभिरासन्न एव विधिः स्यात् । सप्तम्या पूर्वस्य ॥७४।१०५॥ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्याऽनन्तरस्य स्थाने स्यात् । पञ्चम्या निर्दिष्टे परस्य ॥७।४।१०४॥ षष्ट्याऽन्त्यस्य ॥७।४।१०६॥ षष्ठीनिर्देशेन यत्कार्यमुच्यते तत्तस्यान्त्यवर्णस्य स्थाने स्यात् । अनेकवर्णः सर्वस्य ॥७।४।१०७॥ अनेकवर्ण आदेशः षष्ठ्या निर्दिष्टेऽपि सर्वस्य स्यात् । प्रत्ययस्य ॥७।४।१०८॥ प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्य स्यात् । प्रत्ययः प्रकृत्यादेः ॥७४॥११५॥ यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः। प्रत्ययःप्रकृत्यादेः समुदायस्थ विशेषणं स्यात् नोनाधिकस्य । परान्नित्यं, नित्यादन्तरङ्गम्, अन्तरङ्गाचानवकाशं बलीय उत्तरोत्तरतया। असिद्धं बहिरङ्गमन्तरङ्गे । नानिष्टार्थों शास्त्रप्रवृत्तिः। इति परिभाषाविशेषः ॥
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy