________________
८
इज्यः मालेज्यः । स्लात्र उदकं स्नानोदकम् । महाऋद्धिः महर्द्धिः । अत्र हाद (१/३/३१) त्यादिना पक्षे द्वित्वे महर्द्धिः ।
घुटो धुटि स्वे वा ॥ १|३|४८ ॥
व्यञ्जनात्परस्य धुटः स्वे धुटि परे लुग्वा स्यात् । एवं द्वित्वाभावे एकदम् एकधम् । द्वित्वे लोपे च तथैव । द्वित्वे द्विदम् एकधम् । एकदेपि लोपे केवलैकधमिति त्रैरूप्यं ज्ञेयम् । महर्द्धिः, महर्द्धिः, महर्षिः । तवऌकारः तवल्कारः ।
अत्रवर्गस्यान्तस्थातः ॥ १|३|३३ ॥
अन्तस्थातः परस्य नकारवर्जितस्य वर्गस्यानु द्वे रूपे वा स्याताम् । तचल्क्कारः ।
ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सत
रस्यार् ॥ १|२|७॥
प्रादीनां सप्तानामवर्णस्य ऋणे परे परेण ऋता सहाss स्यात् । प्र ऋणं प्रार्णम् । दश ऋणः दशार्णो देशः । ऋण ऋणम् ऋणार्णम् । वसनऋणं वसनार्णम् । एवं कम्बलार्णम् । वत्सरार्णम् । वत्सतरार्णम् । पक्षे ऋलति हखो वा (१२/२) । प्र ऋण, दश ऋणमित्यादि ।
ऋते तृतीयासमासे ॥ १२॥८॥
ऋतशब्दे परे ऽवर्णस्य स्थाने ऋता सहाऽऽ स्यात् । तौ चेन्निमित्तनिमित्तिनावेकन तृतीयासमासे भवतः । शीतेन ऋतः शीतार्तः । दुःखेन ऋतः दुःखार्तः । तृतीयेति किम् ? परमतः । ऋतेन कृतः ऋतकृतः परमश्चासौ ऋतकृतश्च परमर्तकृतः । अत्र निमित्तनिमित्तिनावेकत्र तृतीयासमासे न स्तस्तेन न भवति ।
ऋत्यारुपसर्गस्य ॥ १॥२॥९॥
उपसर्गस्थावर्णस्य स्थाने ऋकारादौ धातौ परे ऋकारेण सहार स्यात् । सवपवादः । प्र ऋच्छति प्राच्छति । परा ऋप्नोति पराप्नोति । अत्र ऋलति हखो वा ( १/२/२) इति न हखः ।
नाम्नि वा ॥ १|२|१०॥
उपसर्गस्थावर्णस्य ऋकारादौ नामावयवे धातौ परे परेण ऋकारेण सहार वा स्यात् । प्र ऋषभीयति इति स्थिते प्रार्षभीयति, प्रर्षभीयति । ऋकारेणापि । उप ऋकारयति उपार्कारयति उपकरीयति ।