________________
त्याल वा ॥ १।२।११ ॥
उपसर्गस्थावर्णस्य ऌकारादौ नामधातौ परे परेण लता सहाल् वा स्यात् । उप कारयति उपाल्कारयति, उपल्कारयति ।
ऐदौत्सन्ध्यक्षरैः ॥ १९२॥१२ ॥
अवर्णस्य सन्ध्यक्षरैः परैः सह ऐत् औत् इत्यादेशौ यथासन्नं स्याताम् । तय एषा तवैषा । तव ऐन्द्री तवैन्द्री । तव ओकः तवौकः । तव औन्नत्यं तवौन्नत्यम् । ऊटा ॥ १।२।१३ ॥
अवर्णस्योदा सहकारः स्यात्, आसन्नः । धा अग्रे ऊतः धौतः । लावयति पावयतीति किपि णिलोपे अनुनासिके च्छ्रुः शूद् || ४|१|१०८ ॥ इत्यूटि लौः पौ
प्रस्यैषैष्योढोढ्यूहे खरेण ॥ १।२।१४ ॥
प्रशन्दस्यावर्णस्य एष एष्य ऊढ ऊढि ऊह इत्येतेषु परेण खरेण सह ऐ औ स्याताम् । प्र एषः प्रैषः । प्र एष्यः मैष्यः । प्र ऊढः प्रौढः । प्र ऊढिः प्रौढिः । प्र अहः प्रौहः । अर्थवग्रहणे नानर्थकस्येति प्रोढवानित्यत्रोकार एव । ईषे ईष्ये च प्रेषः प्रेष्यः इत्येकार एव ।
स्वैरस्वैर्यक्षौहिण्याम् ॥ १।२।१५ ॥
खैर खैरिन अक्षौहिणीत्येतेषु अवर्णस्य परेण खरेण सह ऐत् औत् स्याताम् । स्वस्य ईरः स्वैरः । घञ् । स्व ईशेऽत्रेति स्वैरमास्यताम् । खैरिणी । अक्षौहिणी ।
अनियोगे लुगेवे ॥ १।२।१६
॥
नियोगोऽवधारणम् । तदभावोऽनियोगः । तद्विषये एवेत्यव्यये परेऽवर्णस्व लुक् स्यात् । इह एव इहेव । नियोगे तु इहैव तिष्ठ मा गा दूरे । शक अन्धुः शकन्धुः, कुल अटा कुलटा, पतत् अञ्जलिः पतञ्जलिः, सीमन् अन्तः सीमन्तः केशविन्यासे, हल ईषा हलीषा, मनस् ईषा मनीषेत्यादि सर्व पृषोदरादित्वात्सिद्धम् । वौष्ठतौ समासे ॥ १।२।१७ ॥
ओष्ठशब्दे ओतुशब्दे च परेऽवर्णस्य लुग्वा स्यात् तौ चेन्निमित्तनिमित्तिनावे समासे स्तः । बिम्ब ओष्ठी बिम्बोष्ठी । पक्षे विम्बौष्ठी । बिम्बोष्ठः । बिपौष्ठः । स्थूल ओतुः स्थूलोतुः । स्थूलौतुः । समास इति किम् ? हे राजपुत्रौष्ठं पश्य ।
ओमाङि ॥ १।२।१८ ॥
अवर्णस्य ओमि आङादेशे च लुक्स्यात् । अद्य ओम् अद्योम् | आङि-था
चं. प्र. २