________________
१०
ऊढा ओढा । अद्य ओढा अद्योढा । आङि दीर्घत्वेन सिद्धे लुग्विधानमनर्थकं स्थादिति आङित्याङादेशो गृह्यते । आ इहि एहि, शिव एहि शिवेहि ।
उपसर्गस्यानिषेधेदोति ॥ १।२।१९ ॥
उपसर्गस्यावर्णस्य इण एध्वर्जिते एकारादौ ओकारादौ च धातौ परे लुक् स्यात् । प्र एलयति मेलयति । प्र ओषति प्रोषति । इणेधवर्जिते किम् ? उप एति उपैति । प्र एधते मैधते ।
वा नानि ॥ १।२।२० ॥
नामावrव एकारादावोकारादौ च धातौ परे उपसर्गावर्णस्य लुग्वा स्यात् । उप एडकीयति उपेडकीयति । पक्षे उपैडकीयति । प्र ओषधीयते प्रोषधीयते । पक्षे प्रौषधीयते ।
इवर्णादेरस्व स्वरे यवरलम् ॥ १।२।२१ ॥
वर्णो वर्णॠवर्ण वर्णानामस्खे खरे परे यवरल इत्येते आदेशाः स्युः संहितायां विषये । दधि अत्र इति स्थिते स्थानासन्नत्वादिकारस्य यकारः ।
अदीर्घाद्विरामैकव्यञ्जने ॥ १।३।३२ ॥
अदीर्घात्स्वरात्परस्य रहखरवर्जितस्य वर्णस्य स्थाने विरामेऽसंयुक्तव्यञ्जने च परेऽनु द्वे रूपे वा स्याताम् । इति धकारस्य द्वित्वम् ।
स्थानीवाऽवर्णविधौ ॥ ७|४|१०९ ॥
आदेशः स्थानिवत्स्यादवर्णविधौ न चेत्कार्य्यं वर्णाश्रयं स्यात् । एवं चेह कारे स्थानिवद्भावेन स्वरत्वात् धकारस्य द्वित्वं न स्यात्, द्वित्वे खरवर्जनादिति न चिन्त्यम् । वर्णाश्रयत्वेन स्थानिवद्भावनिषेधात् ।
स्वरस्य परे प्राविधौ ॥ ७|४|११० ॥
परनिमित्तः खरादेशः स्थानिवत्स्यात् व्यवहितेऽव्यवहिते च पूर्वस्य विधी कर्तव्ये | वर्णार्थमिदम् । अनेन यकारस्य स्थानिवद्भावे प्राप्तेऽपि -
न सन्धिङीयविद्विदीर्घाऽसद्विधावस्क्लुकि ॥ ७|४|१११ ॥
सन्धिविधी, ङीविधौ, यविधौ, विब्विधौ, द्विशब्दे भावप्रधाननिर्देशाद्वित्वविधी, दीर्घविधौ, संयोगस्यादौ स्कोलुंग ( २२११८८ ) इति सकारककारलुग्वर्जिसद्विधौ, खरस्यादेशः परनिमित्तो न स्थानिवत् स्यात् । इति निषेधः ।