________________
११
तृतीयस्तृतीयचतुर्थे ॥ १३३४९ ॥
घुट: स्थाने तृतीये चतुर्थे च परे आसन्नस्तृतीयः स्यात् । इति धस्य दः । पदस्य || २|११८९ ॥
पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशः स्यात् । स च परस्यादिविधौ च पूर्वस्मिन्नसन् द्रष्टव्यः । इति यलोपे प्राप्ते असिद्धं बहिरङ्गमन्तरङ्गे इति धकारस्य परनिमित्तस्य बहिरङ्गस्याऽसिद्धत्वान्न यकारलोपः ।
ततोऽस्याः ॥ १।३।३४ ॥
ततः अञ्वर्गात्परस्या अस्याः - अन्तस्थायाः स्थाने द्वे वा स्याताम् । तेन धकारे यकारे च द्वित्वविकल्पाचातूरूप्यम् । दध्यन्त्र, दुद्ध्यत्र, दुख्यत्र, दध्य्यs | अत्रेवर्णादेरिति पञ्चमीव्याख्याने दधियत्र । एषु तकारद्वित्वे दश रूपाणि । एवं मुनि अर्थः मुन्यर्थः, मधु इदं मध्विदम्, पितृ अङ्गं पित्रङ्गम्, ऌ आकृतिः लाकृतिः ।
पुत्रस्यादिनपुत्रादिन्याक्रोशे ॥ १।३।३८ ॥
आदिनशब्दे पुत्रादिन्शब्दे च परे पुत्रशब्दस्य तकारस्याक्रोशविषये द्वे रूपे न स्तः । पुत्रादिनी स्वमसि पापे । पुत्रपुत्रादिनी भव । आक्रोशे किम् ? तत्वकथने द्वित्वं वा स्यादेव । पुत्रादिनी सर्पिणी पुत्रादिनी सर्पिणी । पुत्रहती पुत्रहती । पुत्रजग्धी पुत्रजग्धी । संयुक्त व्यञ्जनेऽपीच्छन्त्येके । इन्द्रः इन्द्रः । चन्द्रः चन्द्रः । सर्वत्र न द्वित्वमित्यन्ये । अर्कः । ब्रह्मा । अदीर्घादिति किम् ? दात्रम् । पात्रम् | अन्वित्यधिकारात् त्वक्कू त्वक्, स्वग्गू, त्वग, इत्यादौ कत्वे गत्वे वा कृते पश्चाद्वित्वम् । हरि अर्यः इति स्थिते यकारे कृते ।
हदिर्हस्वरस्यानु न वा ॥ १।३।३१ ॥
स्वरात्पराभ्यां रेफहकाराभ्यां परस्य रहखरवर्जितस्य वर्णस्य स्थाने अनु द्वे रूपे वा स्याताम् । हर्य्यर्यः । नहि अस्ति नायस्ति । व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा ॥ १।३।४७ ॥ व्यञ्जनात्परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुग्वा स्यात् । हर्यर्च्यः । अदितेरयमादित्य्यः स्थालीपाकः आदित्य इति वा । लोपपक्षे द्वित्वाभावपक्षे चैकयकारं रूपं समानमेव । लुक्करणफलं तु आदित्यो देवताऽस्येति विग्रहे अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाञ्ञ्य ( ६ १ १५ ) इति ज्ये आदित्य्यम् आदित्यं वा हविः । सरूप इति किम् ? माहात्म्यम् ।