________________
एदैतोऽयाय् ॥ १२॥२३॥ एकारैकारयोः स्थाने स्वरे परेऽय आय इत्येतावादेशौ स्याताम् । यथासंख्यमनुदेशः समानानाम् । ने अनं नयनम् । नै अकः नायकः । निर्विशेषणं स्वरपदम् तेन हरये इत्यादौ खेऽपि स्यात् ।
ओदौतोऽवाव् ॥१२॥२४॥ - ओदौतोः खरे परेऽवावौ स्याताम् । लो अनं लवनम् । लौ अक लावकः ।
व्यक्ये ॥ १२॥२५॥ ओदौतोः स्थाने क्यवर्जयकारादौ प्रत्यये परेऽच् आव् च स्यात् । गो यति गव्यति । गो यम् गव्यम् । नौ यति नाव्यति । नौ यम् नाव्यम् । प्रत्ययकथनात् इह न भवति गोयूतिः। क्रोशद्वयसंज्ञायां तु गव्यूतिरिति पृषोदरादित्वात् ।
क्षय्यजय्यौ शक्तौ ॥४॥३॥९०॥ निपात्यौ क्षि जि इत्येतयोः । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । अन्यत्र क्षेयं पापं, जेयं मनः।
कय्यः क्रयार्थे ॥४॥३॥९१॥ क्रव्यं, क्रयाय यद्धद्दे प्रसारितं वस्तु । केयमन्यत्र ।
ऋतो रस्तद्धिते ॥१२॥२६॥ कत ऋकारस्थ यकारादौ तद्धिते परे रादेशः स्यात् । पितरि साधु पित्र्यम् ।
स्वरे वा ॥१॥३॥२४॥ अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्यकारवकारयोः खरे परे लुग्वा स्यात्, स चासन्धिः । पटो इह पटविह पट इह । ते आहुः तयाहुः त आहुः। तस्मै इदं तस्मायिदं तस्मा इदम् । वृक्षौ इह वृक्षाविह वृक्षा इह ।
इतावतो लुक् ॥ ७॥२॥१४६ ॥ अव्यक्तानुकरणे अनेकखरशब्दे योऽत् तस्येतौ परे लुक् स्यात् । पटत् अग्रे इति पंटिति।
न द्वित्वे ॥७२।१४७॥ वीप्सायामनुकरणशब्दस्य द्वित्वेऽदित्यस्य न लुक्स्यात् ।