SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १३ धुटस्तृतीयः॥२॥१७६ ॥ पदान्ते धुटां तृतीयः स्यात् । पटत्पटदिति । तो वा ॥७२॥१४८॥ द्वित्वेऽप्यन्त्र अदित्यवयवेऽकारं त्यक्त्वा केवलस्य तकारस्य वा लुक स्यात् । पात्पटेति, पटपटदिति वा । एदोतः पदान्तेऽस्य लुक् ॥१॥२॥२७॥ पदान्ते स्थितादेकारादोकाराच परस्याकारस्य लुक् स्यात् । ते अन तेऽत्र । पटो अत्र पटोऽत्र। गोर्नाम्यवोऽक्षे॥१॥२॥२८॥ गोरोकारस्य पदान्ते वर्तमानस्य अक्षे परे नानि गम्ये अव इत्ययमकारान्त आदेशः स्यात् । गो अक्षः गवाक्षा, वातायनः । अन्यत्र गो अक्षाणि गोऽक्षाणि । इन्द्रे ॥१॥२॥३०॥ गोरोतोऽवादेश इन्द्रे परे । गो इन्द्रः गवेन्द्रः। स्वरे वाऽनक्षे ॥१२२९॥ गोरोकारस्य पदान्ते अव इत्ययमादेशो वा स्यात् अनक्षे खरे । गो ईशः गवेशः। गवीशः। गो अग्रं गवाग्रम् । वात्यसन्धिः ॥१॥२॥३१॥ ___ गोरोकारस्य पदान्ते वर्तमानस्याऽकारे परेऽसन्धिर्वा स्यात् । गो अग्रम् । गोऽग्रम् ॥ इति श्रीचन्द्रप्रभायां प्रक्रियायां खरसन्धिः । अथाऽसन्धिप्रकरणम् । सर्वदा विजयानन्दी महानेकपलक्षणः । श्रीहैमद्युतिमाञ्जीयादजितो जितशात्रवः ॥१॥ प्लुतोऽनितौ ॥ १२॥३२॥ इतिशब्दवर्जिते खरे प्लुतोऽसन्धिः स्यात् । सन्धिकार्यभार न स्यादित्यर्थः । एहि देवदत्त ३ अत्र तव कार्यम् । जिनदत्त ३ इदमानय । अनिताविति किम्? मुश्लोक ३ इति सुश्लोकेति ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy