________________
ह्रस्वोऽपदे वा ॥१२२२॥ इवर्णादीनामखे स्वरे परे इस्खो वा स्यात्, अपदे न चेत्ती निमित्तनिमित्तिनावेकत्र पदे भवतः । नदी एषा नदि एषा । दधि अत्र दधि अत्र । इह हखस्यापि इखः कार्यान्तरनिवृत्त्यर्थम् । चक्री अत्र चक्रि अत्र । पक्षे नयेषा,
ध्यत्र, चयन । अपद इति किम् ? नद्यः । नद्यर्थः, वाप्यश्वः, इत्यादावन्तर्वर्तिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यम् । अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥७॥४॥१०१॥ ___ यदभिवाद्यमानो गुरुः कुशलानुयोगेनाऽऽशिषा वा युक्तं वाक्यं प्रयुङ्क्ते स प्रत्यभिवादस्तस्मिन्नस्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य खरेष्वन्त्यः खरो भोसूशब्दस्य गोत्रस्य नाम्नो वाऽऽमभ्यस्य सम्बन्धी प्लुतो वा स्यात् । अभिवादये देवदत्तोऽहं त्वामिति शिष्येणोक्ते गुरुः प्रत्याह, आयुष्मानेधि भोः ३, आयुष्मानेधि भो वा । आयुष्मानेधि देवदत्त ३, आयुष्मानेधि देवदत्तेति वा । गोत्रेऽपि-- अभिवादये गाय॑गोत्रोऽहमित्युक्ते, गुरु: भोः कुशल्यसि गार्य ३, गाग्र्येति वा प्राह । राजन्यविशोरपि गोत्रत्वमस्त्येव । अभिवादयेऽहमिन्द्रवर्मा इत्युक्ते भी आयुष्मानेधीन्द्रवर्म इन् । पक्षे आयुष्मानेधीन्द्रवर्मन् । आयुष्मानेधीन्द्रपालित ३, आयुष्मानेधीन्द्रपालितेति वा । स्त्रीशूद्रवर्जनं किम् ? अभिवादये गाय॑हमित्युक्ते भो आयुष्मती भव गार्गि। अभिवादये तुषजकोऽहमित्युक्ते भो आयुष्मानसि तुषजक । नात्र प्लुतः। शुद्रप्रत्यभिवादात् । नाम्नि गोत्रे वाsनुप्रयुज्यमाने एव प्लुतो नान्यत्रेति केचित् । तन्मते आयुष्मानेधीत्यत्र न लुतः । नाम्नो गोत्रस्य वाऽप्रयोगात्।
हेहैष्वेषामेव ॥ ७।४।१०० ॥ दूरादामध्यस्य सम्बन्धिनोहेहायोर्वाक्ये यत्रतत्रस्थयोरन्त्यखरः प्लुतो वा स्यात् । हे ३ देव । दैव है ३॥ दूरादामन्यस्य गुरुवैकोऽनन्योऽपि लनृत् ॥७॥४॥९९॥
यत्र सहजप्रयत्नात् विशेषेण प्रयत्नः स्यात्तरम् । वाक्यस्य खरेष्वन्त्यः स्वरो दूरादामन्यपदस्य सम्बन्धी गुरुर्वाऽनन्त्योऽपि ऋकारवर्जितः स्वरस्तथा लकारश्चैको दूरादामन्यस्य सम्बन्धी स लुतो वा स्यात् । आगच्छ भो दे ३ वदत्त, देवद ३त्त, देवदत्त ३ इत्थं कुरु वा सक्तून पिव । दूरादिति किम् ? शृणु देवदत्त । अन्न न दूरस्थस्थामन्त्रणम् । आमच्यस्येति किम् ? आगच्छतु देवदत्तः । आमच्यविशेषणे न प्लुतः । आगच्छ भो कपिलक माणवक । अन्न विशेषणे माणवक