SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ शब्दे न प्लुतः। गुरुरिति किम् ? अनन्त्यस्य लघोमी भूत् । एक इति किम् ? एकशब्दे योगपद्येन प्लुतद्वयं न स्यात् । अनन्त्योऽपीति किम् ? अन्त्यस्यैव मा भूत् । लकारग्रहणमदिति प्रतिषेधनिवृत्त्यर्थम् । अथ ऋकारस्य प्रतिषेधे लकारस्य कः प्रसङ्गः? उच्यते, इदमेव ज्ञापकमृवर्णग्रहणे लवर्णस्यापि ग्रहः स्यात् । तेनाचीलपदित्यादौ वर्णकार्य लवणस्यापि सिद्धम् । अदिति किम् ? कृष्णमि ३ त्र यद्वा कृष्णमित्र ३ । अत्र कृ इत्यस्य न प्लुतः। इ३ वा ॥१२॥३३॥ १३ इति प्लुतः स्वरे परे वाऽसन्धिः स्यात् । इतौ प्लुतो न प्राप्तः अन्यत्र प्राप्त इत्युभयत्र विकल्पः । लुनीहि ३ इति लुनीहीति। चिनुहि ३ इदम् । चिनुहीदम् । हदूदेविवचनम् ॥ १॥२॥३४॥ ईत ऊत् एत् इत्येवमन्तं द्विवचनं स्वरे परेऽसन्धिः स्यात् । मुनी इह । भानू एतौ । माले इमे । पचेते इति । एषां प्लुतानामितौ परेऽप्यसन्धिः । अग्नी ३ इति वायू ३ इति । तव अग्रे ई कामौ इत्यत्र पूर्वेण सन्धिः स्यादेव । परकार्य एवासन्धिः। तवे आसाते। अदो मुमी ॥१२॥३५॥ अदसूसम्बन्धिनौ मुमी इत्येतावसन्धी स्यातां स्वरे परे। अमुमुईचः । अमी अश्वा: । असिति किम् ? अम्यत्र रोगिवाचकोऽयम् । चादिः स्वरोऽनाङ्॥१२॥३६॥ __आवर्जश्चादिरच्ययः स्वरः स्वरे परेऽसन्धिः स्यात् । अ अपेहि । आ एवं मन्यसे । आ एवं नु तत् । इ इन्द्रं पश्य । अनाङिति किम् ? आ ईषदुष्णम् ओष्णम् । आ इहि ! एहि आ उदकान्तादोदकान्तात् । आ आय्र्येभ्य आऽऽय्येभ्यो यशो गतं गौतमस्थ । 'इषदर्थे क्रियायोगे, मर्यादाभिविधौ च यः। एतमातं डित विद्याद्वाक्यस्मरणयोरङित् । ओदन्तः ॥ १२॥३७॥ __ ओकारान्तश्चादिः खरेऽसन्धिः स्यात् । अहो अत्र । मिथो अत्र मिथोऽत्र । नायं चादिः। सौनवेतौ ॥ १२॥३८॥ सिनिमित्तक ओदन्त इतौ परेऽसन्धिर्वा स्यात् । पटो इति । पटविति। पट इति।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy