SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अथ चन्द्रप्रभा (हैम कौमुदी ) | श्रीवीतरागाय नमः । —(ffanter me प्रणम्य श्रीमदर्हन्तं, सुबोधां प्रक्रियां ब्रुवे । चन्द्रप्रभाभिधां सिद्ध हेमचन्द्रानुसारिणीम् ॥ १ ॥ श्रीहेमचन्द्राचार्य्याय नमः स्मायय सिद्धये । यत्प्रभावान्मनीषा मे न स्खलेत्कुत्रचिद्विधौ ॥ २ ॥ अर्हम् ॥ १|१|१॥ अर्हमित्यक्षरं परमेश्वरवाचकं शास्त्रादौ प्रणिधेयम् । सिद्धिः स्याद्वादात् ॥ ११२ ॥ नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । ततः प्रकृतानां शब्दानां सिद्धितिर्वा ज्ञेया । एकस्यैव हस्वदीर्घादिविधानं नानाकारकसंयोगः सामानाधिकरण्यादिकं च स्याद्वादं विना न घटते । लोकात् ॥ १|१|३॥ इहानुक्तं (यत्) संज्ञान्यायवर्णाम्नायादि तदन्येभ्यो वैयाकरणादिभ्यो ज्ञेयम् । अतः परेभ्य एव वर्णसमाम्नायो वेद्यः । तत्र औदन्ताः स्वराः ॥ १॥१॥४॥ अकाराद्या औकारपर्यन्ता वर्णाः खरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋ ऌ लू ए ऐ ओ औ । एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ ११५ ॥ मात्रा वर्णोच्चारणसमयविशेषः । एकद्वित्र्युच्चारणमात्राः खरा हुखदीर्घसुतसंज्ञाः स्युः । अ इ उ ऋ ऌ हखाः । आ ई ऊ ऋ ऌ ए ऐ ओ औ दीर्घाः । हवा एकमात्राः । द्विमात्रा दीर्घाः । अ ३ इ ३ उ ३ इत्याद्यास्त्रिमात्राः छताः । खरकथनाद्व्यञ्जनमर्द्धमाश्रकमिति अर्धमात्रिकयोर्व्यञ्जनयोः ह्रस्वसंज्ञाया अभावात्प्रतक्ष्य इत्यत्र तोऽन्तो न भवति । समुदायैकमात्रत्वे
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy