Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 01 Author(s): Muniratnasuri, Vijaykumudsuri Publisher: Manivijay Ganivar Granthmala View full book textPage 3
________________ // 3 // | कुमारकविना, सभासमक्षं वाचितश्च महोत्सवपूर्वकं पत्तननगरे यदुक्तम् "श्रीनेमिना यदुकुलाधिपतिमुकुन्दो, भाविजिनोऽस्ति कथितोऽममसञ्जया यः। कृत्वा नवं चरितमस्य सदस्यसाक्ष्यं व्याख्याय तत्फलयुगं | मम दत्त पूज्याः // 24 // इत्यर्थितो मन्त्रिवरेण भक्त्या तेनाममस्वामिजिनेश्वरस्य / भविष्यतश्चारुरसैः पवित्रं सम्पल्लताचैत्रसमं चरित्रम् // 25 // समु द्रसूरेश्वरणैकरेणुः समग्रविद्यासरसीकरेणुः / स्वान्योपकृत्यै श्रुतरत्नभूरिविनिर्ममे श्रीमुनिरत्नसूरिः // 26 // एतद्विक्रमतो द्विपश्चदिनकृद्वर्षे कृतं | पत्तने, सम्यक् शोधितवान् नृपाक्षपटलाध्यक्षः कुमार कविः / सद्वैयाकरणाग्रणी विधिरुचिः श्रीपूर्णपालो यशःपालो बालकविस्तथा मणमहानन्दौ च | सभ्याग्रिमौ // 29 // श्रीशान्तेर्मुनिरत्नसूरिगुरून् व्याख्यापयन्मन्दिरे, तस्मिन्नेव पुरे महर्द्धिकसमे संलेख्य तत्पुस्तके / मन्त्री बालकविविधाप्य च घनैरर्थव्ययैरुत्सवान् प्रीतः कौतुकमार्जयज्जयमयः कल्याणकोटिश्रियः // 30 // अन्ये के ग्रन्था श्रीमद्भिर्विरचिता इति न ज्ञायते, परं खम्भातताडपत्रकोशे श्रीमुनिसुव्रतस्वामिचरित्रं श्रीमद्भिर्विरचित कतिचित्पत्ररहितमस्ति अस्योपयोगिग्रन्थस्यैकामेव प्रतिं दृष्ट्वा ग्रन्थोद्धारबुद्ध्या पूज्यपादगुरुवर्य श्रीमदाचार्यदेवश्रीविजयकुमुदस्सरीश्वरैस्ताडपत्रीयग्रन्थादुत्तार्य भूरिपIs रिश्रमेण स्वपरोपकारार्थ शुद्धिकार्य कृतमस्ति तथापि याः काश्चनाशुद्धयो भवेयुस्ताः परहितरसिकविद्वज्जनैः संशोध्य कृपां कृत्वा विज्ञपयितव्याः। | एतच्चरित्रग्रन्थस्य द्वितीयविभागो मुद्रयमाणोऽस्ति सोऽप्यल्पसमयेन प्रकटी भविष्यति, करोतु कारयतु चैतद् ग्रन्थस्य पठनपाठनक्रियां श्रीचतुर्विधसंघ इति विज्ञप्ति कुर्वन् विरमति कपडवंज पूज्यपाद चरणकमलसेवाहेवाको श्रावणपूर्णिमा, ता. 26-8-42 निपुणविजयो मुनिः // 3 //Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 306