Book Title: Bhartiya Darshano ma Ishwar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf

View full book text
Previous | Next

Page 73
________________ ભારતીય દર્શનોમાં ઈશ્વર ૧૨૫ ७८. तत्स्वाभाव्यात् सततप्रवृत्तिरिति चेत् — अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं प्रवृत्तिनिवृत्ती न प्राप्नुतः, न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तिर्युज्यत इति क्रमेणोत्पत्तिर्न प्राप्नोति तत्त्वस्यैकरूपत्वात् । न्यायवा. ४.१.२१ ॥ ७८. नैष दोष: बुद्धिमत्त्वेन विशेषणात् – बुद्धिमत्तत्त्वमिति प्रतिपादितम् । बुद्धिमत्तया च विशिष्यमाणं सापेक्षं च न सर्वदा प्रवर्तते, न सर्वमेकस्मिन् काले उत्पादयति यस्य कारणसान्निध्यं तद् भवति यदसन्निहितकारणं तन्न भवति, न च सर्वस्य युगपत्कारणसान्निध्यमस्ति, अतः सर्वस्य युगपदुत्पादो न प्रसक्तः, स खलु प्रवर्तमानो धर्माधर्मयोः परिपाककालमपेक्षते । न्यायवा. ४.१.२१ । १००. न च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो घटत इति । सा च बुद्धिः सर्वार्थाऽतीतानागतवर्तमानविषया प्रत्यक्षा, नानुमानिकी नागमिकी, न तत्रानुमानं नागम इति । ज्ञाननित्यत्वाच्च न संस्कारः नित्यं विज्ञानमीश्वरस्येति न तत्र संस्कारो विद्यत इति, संस्काराभावाद् बुद्धिनित्यत्वाच्च न स्मृतिः स्मृत्यभावाच्च नानुमानम् । न दुःखमधर्मस्याभावात् । अत एव न वैराग्यमिति, दुःखाभावान्न विरज्यत इति । अत एव न द्वेषो दुःखभावादिति । इच्छा तु विद्यतेऽक्लिष्टाऽव्याहता सर्वार्थेषु यथा बुद्धिरिति । न्यायवा. ४.१.२१ । १०१. अथ किमयं बद्धो मुक्त इति ? न बद्धो दुःखाभावादेव, अबद्धत्वान्न मुक्त इति - बन्धवान् मुच्यत इति, न च भगवति बन्धनमस्तीति अतो न मुक्त इति । न्यायवा ४.१.२१ । - १ ० २.आत्मान्तराणामसम्बन्धादधिष्ठातृत्वमनुपपन्नमितिचेत् – अथ मन्यसे अर्थान्तरसमवायिनो ये धर्माधर्माः ते न साक्षादीश्वरेण सम्बध्यन्ते न पारम्पर्येण न चासम्बद्धमनुष्ठातुं शक्यते, न चारधिष्ठितयोर्धर्माधर्मयोः प्रवृत्तिर्युक्ता । न्यायवा. ४.१.२९ । १.०३. तच्च न, अजसम्बन्धोपपत्तेः । न्यायवा. ४.१.२१ ॥ १०४. येऽप्यजं संयोगं नेच्छन्ति तेषामप्यणुमनः संयोगोपपत्तेरस्ति सम्बन्धः । न्यायवा ४.१.२१ । १०५. स पुनरात्मेश्वरसम्बन्धः किं व्यापकोsव्यापको वा इति अर्थाभावादव्याकरणीयः प्रश्नः । आत्मेश्वरसम्बन्धोऽस्तीत्येतदेव शक्यते वक्तुम् । न्यायवा. ४.१.२१ । १०९. न्यायवा. ४.१.२१ । १०७....तस्माद्विनाशित्वेनापि कार्यत्वानुमानात्... अथवा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे...। न्यायमं. भा० १, पृ० १८० । १०८. अदृश्यस्य च कर्तृरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः... नाकृष्टजातवनस्पतीनामकर्तृत्वमिति न विपक्षता । न्यायमं. भा० १, पृ० १८० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84