Book Title: Bhagwati sutram Part 01 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 8
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३॥ बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, व रोहति भवाङ्कुरः ॥ १ ॥" नमस्करणीयता चैषां भीम| भवगहन भ्रमण भीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । ' णमो सिद्धाणं' ति, सितंबद्धमष्टप्रकारं कम्र्मेन्धनं ध्मातं- दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'विधु गतौ' | इति वचनात् सेधन्ति स्म - अपुनरावृत्या निर्वृतिपुरीमगच्छन्, अथवा 'विधु संराद्धौ' इतिवचनात् सिद्ध्यन्ति स्म - निष्ठि तार्था भवन्ति स्म, अथवा 'षिधूञ् शास्त्रे माङ्गल्ये च' इतिवचनात् सेधन्ति स्म - शासितारोऽभूवन् मङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात्, | आह च - "मातं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ १ ॥” अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'णमो आयरियाणंति, आ-मर्यादया तद्विषयविनयरूपया चर्यन्ते - सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्याः, उक्तञ्च - " सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अस्थं वापइ आयरिओ ॥ १ ॥ त्ति, अथवा - आचारो - ज्ञानाचारादिः पश्चधा आ-मर्यादया वा चारो - विहार आचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्वाचार्याः, आह - १ सूत्रार्थविलक्षणयुक्तो गच्छस्थासम्बनभूतम । गणतप्ति विप्रमुक्तः सच वाचयत्याचार्यः ॥ १ ॥ Jain Education International For Personal & Private Use Only ९ शतके पञ्चपरमेष्ठिनतिः ॥ ३॥ www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 656