Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 13
________________ इत्यर्थः १, 'दुक्खे'त्ति दुःखविषयो द्वितीयः 'जीवो भदन्त ! स्वयंकृतं दुःखं वेदयती'त्यादिप्रश्ननिर्णयार्थ इत्यर्थः२, 'खपओसे'त्ति काटा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं कालाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त!काङ्कामोहनीय कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः३, चकारा समुच्चये, 'पगईत्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशकस्यार्थः, कति भदन्त! कर्मप्रकृतयः' इत्याविश्चासौ ४, 'पुढवीओ'त्ति रत्नप्रभादिपृथिव्यः पञ्चमे वाच्याः, 'कति भदन्त! पृथिव्यः' इत्यादि च सूत्रमस्य ५, 'जावंते'त्ति यावच्छन्दोपलक्षितः षष्ठः 'यावतो भदन्त ! अवकाशान्तरात्सूर्य' इत्यादिसूत्रश्चासौ ६, 'नेरइए'त्ति नैरयिकशब्दोपलक्षितः सप्तमः, नैरयिको भदन्त ! निरये उत्पद्यमान' इत्यादि च तत्सूत्रं ७, 'बालेत्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालो भदन्त! मनुष्य' इत्यादिसूत्रश्चासौ ८, 'गुरुए'त्ति गुरुकविषयो नवमः, कथं भदन्त!जीवा गुरुकत्वमागच्छन्ति ?' इत्यादि च सूत्रमस्य ९, चः समुच्चयार्थः, 'चलणाओ'त्ति बहुव चननिर्देशाच्चलनाद्यादशमोद्देशकस्यार्थाः,तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त । एवमाख्यान्ति-चल अचलितमित्यादी ति| प्रथमशतोद्देशकसहणिगाथार्थः॥१॥ तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह नमो सुयस्स ॥ सू०३ ॥ 'नमो सुयस्स'त्ति नमस्कारोऽस्तु 'श्रुताय' द्वादशाङ्गीरूपायाहत्प्रवचनाय, नग्विष्टदेवतानमस्कारो मङ्गालार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ?, अत्रोच्यते, श्रुतमिष्टदेवतैव, अर्हतां नमस्करणीयत्वात् , सिद्धवत्, नमस्कुवन्ति च श्रुतमहन्तो, 'नमस्तीर्थायेति भणनात्, तीर्थ च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात् , तदाधारत्वेनैव -KA-%A-63.42-444. Jain Educati o nal For Personal & Private Use Only M anelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 656