________________
इत्यर्थः १, 'दुक्खे'त्ति दुःखविषयो द्वितीयः 'जीवो भदन्त ! स्वयंकृतं दुःखं वेदयती'त्यादिप्रश्ननिर्णयार्थ इत्यर्थः२, 'खपओसे'त्ति काटा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं कालाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त!काङ्कामोहनीय कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः३, चकारा समुच्चये, 'पगईत्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशकस्यार्थः, कति भदन्त! कर्मप्रकृतयः' इत्याविश्चासौ ४, 'पुढवीओ'त्ति रत्नप्रभादिपृथिव्यः पञ्चमे वाच्याः, 'कति भदन्त! पृथिव्यः' इत्यादि च सूत्रमस्य ५, 'जावंते'त्ति यावच्छन्दोपलक्षितः षष्ठः 'यावतो भदन्त ! अवकाशान्तरात्सूर्य' इत्यादिसूत्रश्चासौ ६, 'नेरइए'त्ति नैरयिकशब्दोपलक्षितः सप्तमः, नैरयिको भदन्त ! निरये उत्पद्यमान' इत्यादि च तत्सूत्रं ७, 'बालेत्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालो भदन्त! मनुष्य' इत्यादिसूत्रश्चासौ ८, 'गुरुए'त्ति गुरुकविषयो नवमः, कथं भदन्त!जीवा गुरुकत्वमागच्छन्ति ?' इत्यादि च सूत्रमस्य ९, चः समुच्चयार्थः, 'चलणाओ'त्ति बहुव चननिर्देशाच्चलनाद्यादशमोद्देशकस्यार्थाः,तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त । एवमाख्यान्ति-चल अचलितमित्यादी ति| प्रथमशतोद्देशकसहणिगाथार्थः॥१॥ तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह
नमो सुयस्स ॥ सू०३ ॥ 'नमो सुयस्स'त्ति नमस्कारोऽस्तु 'श्रुताय' द्वादशाङ्गीरूपायाहत्प्रवचनाय, नग्विष्टदेवतानमस्कारो मङ्गालार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ?, अत्रोच्यते, श्रुतमिष्टदेवतैव, अर्हतां नमस्करणीयत्वात् , सिद्धवत्, नमस्कुवन्ति च श्रुतमहन्तो, 'नमस्तीर्थायेति भणनात्, तीर्थ च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात् , तदाधारत्वेनैव
-KA-%A-63.42-444.
Jain Educati
o
nal
For Personal & Private Use Only
M
anelibrary.org