SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३॥ बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, व रोहति भवाङ्कुरः ॥ १ ॥" नमस्करणीयता चैषां भीम| भवगहन भ्रमण भीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । ' णमो सिद्धाणं' ति, सितंबद्धमष्टप्रकारं कम्र्मेन्धनं ध्मातं- दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'विधु गतौ' | इति वचनात् सेधन्ति स्म - अपुनरावृत्या निर्वृतिपुरीमगच्छन्, अथवा 'विधु संराद्धौ' इतिवचनात् सिद्ध्यन्ति स्म - निष्ठि तार्था भवन्ति स्म, अथवा 'षिधूञ् शास्त्रे माङ्गल्ये च' इतिवचनात् सेधन्ति स्म - शासितारोऽभूवन् मङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात्, | आह च - "मातं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ १ ॥” अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'णमो आयरियाणंति, आ-मर्यादया तद्विषयविनयरूपया चर्यन्ते - सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्याः, उक्तञ्च - " सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अस्थं वापइ आयरिओ ॥ १ ॥ त्ति, अथवा - आचारो - ज्ञानाचारादिः पश्चधा आ-मर्यादया वा चारो - विहार आचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्वाचार्याः, आह - १ सूत्रार्थविलक्षणयुक्तो गच्छस्थासम्बनभूतम । गणतप्ति विप्रमुक्तः सच वाचयत्याचार्यः ॥ १ ॥ Jain Education International For Personal & Private Use Only ९ शतके पञ्चपरमेष्ठिनतिः ॥ ३॥ www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy