Book Title: Bhagwati sutram Part 01 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 5
________________ स्वेऽपि ह्रस्वतया महतामेक काछितवस्तुसाधनसमर्थयोर्वृत्तिचूर्णिनाडिकयोस्तदन्येषां च जीवाभिगमादिविविधविवरणदवर कलेशानां संघट्टनेन बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायेकादेशादिव गुरुजनवचनात्पूर्व मुनिशिल्पि - | कुलोत्पन्नैरस्माभिर्नाडिकेवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना । अथ 'विआहपन्नत्ति'त्ति कः शब्दार्थः १, उच्यते, विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना-कथ| ञ्चिन्निखिलज्ञेयव्याया मर्यादया वा - परस्परासंकीर्णलक्षणाभिधान रूपया ख्यानानि - भगवतो महावीरस्य गौतमादि| विनेयान् प्रति प्रश्नितपदार्थप्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते - प्ररूप्यन्ते भगवता सुधर्म्मस्वामिना जम्बूनामानमभि यस्याम् १, अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्याः - अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् २ अथवा व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः ३, अथवा व्याख्यायाःअर्थकथनस्य प्रज्ञायाश्च - तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्तिः - प्राप्तिः आत्तिर्वा - आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञाप्तिर्व्याख्याप्रज्ञात्तिर्वा ४ - ५, व्याख्याप्रज्ञाद्वा-भगवतः सकाशादातिरात्तिर्वा गणधरस्य यस्याः सा तथा, ६, अथवा विवाहा - विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रबोध्यन्ते वा यस्यां विवाहा वा विशिष्टस|न्ताना विबाधा वा प्रमाणावाधिताः प्रज्ञा आप्यन्ते यस्याः विवाहा चासौ विबाधा चासौ वा प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थ | प्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्तिः विबाधप्रज्ञाप्तिर्विबाधप्रज्ञप्तिर्वा ७ ८ ९ १०, इयं च भगवतीत्यपिं पूज्यत्वेनाभिधीयते १ मतिमतां पक्षे उच्चानां । २ सज्ञः । Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 656