Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 9
________________ बन्धशतक प्रकरणम् पाणवहाईसु रओ जिणपूआमोक्खमग्गविग्घकरी । अज्जेइ अंतरायं न लहइ जेणिच्छियं लाभं ॥२६॥ इति गाथायुग्मेन स्पष्टतया ज्ञापितमेतत् यदुत चैत्यस्यापि प्रत्यनीकोऽवर्णवादाद्यनिष्टनिर्वर्त्तको जीवो येन बद्धेनाऽनन्तसंसारिको भवति तद्दर्शनमोहं-मिथ्यात्वमोहनीयं कर्म बध्नाति जिनपूजाविघ्नकरश्चाज्र्ज्जयति - निर्वर्त्तयति पञ्चप्रकारमप्यन्तरायं कर्म । यद्विषयवर्णनमस्मिन् प्रकरणरलेऽस्ति नव्यशतके-पञ्चमकर्मग्रन्थे च नास्ति तत् प्रदर्श्यते “द्वाषष्टिमार्गणास्थानेषु चतुर्दश जीवस्थानानि, चतुर्दशजीवस्थानेषूपयोगाः योगाश्च, द्वाषष्टिमार्गणास्थानेषु गुणस्थानानि, गुणस्थानेषूपयोगाः योगाश्च, गुणस्थानेषु सामान्येन चत्वारो बन्धप्रत्ययाः, अष्टानां कर्मणां विशेषप्रत्ययाः, अष्टानां मूलप्रकृतीनां बन्धोदयोदीरणास्थानानि गुणस्थानेषु बन्धोदयोदीरणास्थानानां संवेधश्च, मूलोत्तरप्रकृतयः, गुणस्थानेषूत्तरप्रकृतिबन्धस्वामित्वम्, मार्गणासु बन्धस्वामित्वम्, उत्तरप्रकृतिषु च मिथ्यात्वाद्याश्चत्वारः प्रत्ययाः ।" परमुक्ता एते षडशीतौ । अथ च यद्विषयवर्णनं नव्यशतके वर्त्ततेऽत्र च न वर्त्तते तत् प्रकाश्यते “ध्रुवबन्धोदयसत्तापरावर्त्तप्रकृतयः सप्रतिपक्षाः, उत्तरप्रकृतीनां जघन्योत्कृष्टस्थितिः, एकेन्द्रियादिषु स्थितिप्रतिपादनम्, अबाधाकालः, एकस्मिन् मुहूर्ते क्षुल्लकभवप्रमाणम्, गुणस्थानेषु स्थितिबन्धः, एकेन्द्रियादिस्थितिबन्धानामल्पबहुत्वम्, सान्तरबन्धस्य निरन्तरबन्धस्य चोत्कृष्टेतरकालमानम्, वर्गणास्वरूपम्, गुणश्रेण्याः, गुणस्थानानां जघन्यमुत्कृष्टं चान्तरालम्, पल्योपमस्वरूपम्, पुद्गलपरावर्तस्वरूपम्, श्रेणिद्वयं चेति ।" अन्यत्रैतदर्थस्य दृब्धत्वाद् नात्रोल्लेखः । चतुर्दशानां पूर्वाणामग्रायणी (ग्रेणीय) नामकद्वितीयपूर्वान्तर्गतविंशतिप्राभृतप्रमाणपञ्चमवस्तुनः सकाशाच्चतुर्थाच्चतुर्विंशत्यनुयोगद्वारमया प्रस्तावना ९

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 376