Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ ग्रन्थकाराभिधानं - पूर्व प्राचुर्येण साधुमहात्मनां नामानि गृहस्थपर्याय भावीन्येव प्रचारमापुः प्रव्रज्यापर्यायेऽपि कचिदेव च श्री सिद्धसेन दिवाकरकलिकालसर्वज्ञ श्री हेम सूर्यादीनामिव नाम्नः परावर्त्तोऽपि, अधुना तु पोडशशताब्दीतः सागर विजयविमलादिशाखानां प्रादुर्भावात् सर्वेषां परावर्त्तोऽभिधाने प्रव्रज्यादिने एव परं श्रीमतामभिधानं तु पूर्वपर्यायाभिधानेनैव न तु परावृत्तं, तेन गिर्याख्या काऽपि शाखा तद्न्तर्गताश्चैते महात्मान इति न भ्रान्तव्यं भारतीभूषणैः, मलयगिरिवत् सर्वदा मनोहरत्वशील सुगन्धित्वविनयवत्वशान्ततमत्व कुमतताप निर्णाशनादिकामनुपमां गुणगणत तिमुपलभ्य पूज्यानां गौणं वाऽभिधानमेतत् रूढं स्यात् यतो नेदमभिधानं संज्ञारूपं, किन्तूपमारूपमिति विदुषां विश्रुतमेव । सत्तासमयः - यद्यपि पूज्यतमैर्ग्रन्था जग्रन्थिरेऽनेके तथापि न कुत्रापि स्वेषां सत्तासमयो मातापित्रोरभिधानं जन्मभूमिः यावत् पूज्यतमानां स्वगुरूणां गच्छस्यापि च नाम निर्दिष्टानि, पूज्यानां सर्वेष्वपि प्रन्थेषु स्वरचितत्वं मात्रं दर्शितं प्रेक्ष्यते, नान्यत् किमपि गुरुगच्छाभिधानादिकं न च वाच्यं तदानींतने समये प्रन्थावसाने गुरुगच्छदर्शनपर मैतिह्यं नैवाभूत्, यतः पूज्यप्रवराः कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वराणां भ्रातरः शिष्याः शिष्यप्राया वा उपसम्पदादिनाऽभूवन्निति अस्मिन्नेव ११ पत्रे तथाचाहुः स्तुतिषु गुरव इत्युद्दिश्य गुरुत्वं श्रीहेमचन्द्रसूरीश्वरप्रणीतमन्ययोगव्यवच्छेदस्तुतिगतं काव्यमुल्लिखितं ततो निश्चीयते, कालिकालसर्वज्ञकाले तु परःशता ग्रन्था गुरुगच्छाभिधानाद्यभिधानालङ्कृताः, अस्मादेव च निर्देशादेतदपि न शक्यं वक्तुमेतत् यदुत गुरुषु न ते तथाविधां भक्तिं बिभरांचकुरिति, एवं च यः कश्चिचोद्यचक्षुरेवं प्रालपत् यदुत श्री हेमचन्द्रसूरीणां गुरुभ्रातर एते, श्रीहेमचन्द्रसूरिभ्य आचार्यपदं श्रीदेवचन्द्रैः परमगुरुभिर्दत्तमिति मन्युना 'बूढो गणहरसहो' इत्याद्युक्त्वा नन्द्यां श्रीदेवचन्द्राचार्यं शशापेति तत् निरस्तं यतः प्रस्तुतं नन्दीवृत्तिगतश्रीहारिभद्रीयं वचोऽपि तथैवा Jain Educational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 340