Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ उपक्रमः। श्रीआव० मलयगि० प्राकू कृतं, किन्तु अनुज्ञाकालसायंकालयोर्मध्यभागे, आवश्यकं चावश्यकानुष्टानं भगवतां गणधराणामपि, तथा चाङ्गबाह्यत्वेऽप्यस्य गणधरकृतताऽव्याहतैव, अत एव चानङ्गप्रविष्टश्रुतलक्षणे ४८ पत्रे एत एव सूरीन्द्राः 'गणधरकृतप्रश्नव्यतिरेकेण शेषकृतप्रश्नपूर्वकं वा भगवतो मुत्कलं व्याकरण'मिति स्पष्टितवन्तः, अङ्गबाह्यस्य सर्वथा गणधरेतरतत्रितत्वे गणेत्याद्यविकल्पस्यैवाभावात् , यच्च कचित् श्रीभद्रबाहुस्वामिप्रभृतिभिः स्थविरैः कृतमङ्गबाह्यमावश्यकादीत्युच्यते तद् आवश्यकनियुक्तिमावश्यकत्वेनाभिप्रेत्यैव, एवं च भगवद्भिः श्रीजिनभद्रक्षमाश्रमणैरावश्यकनियुक्तेाख्यानेऽपि 'आवासयाणुओगं' इत्यूचे, श्रीआचाराङ्गवृत्तौ लोकनिक्षेपाधिकारे च चतुर्विशतिस्तवस्त्वारातीयेत्यादिना चतुर्विंशति| स्तवत्वेन तन्नियुक्तिरेवाभिप्रेता, कचित्तु अङ्गबाह्यानां स्थविरकृतत्वनिदर्शने स्पष्टतयाऽऽवश्यकनियुक्तिरेवोच्यते यथाऽत्रैव ४८ तदनङ्गप्रविष्टं, तच्चावश्यकनियुक्त्यादि' ततश्चाङ्गप्रविष्टं गणधरकृतमेव स्थविरकृतं त्वङ्गबाह्यमेवेति निर्णेयं सुधीभिः, एवं चास्यावश्यकस्याङ्गबाह्यत्वे गणधरकृतत्वे च न कोऽपि विरोधः। अस्य सूत्रस्य प्रतिदिनमाहतानां द्विरुपयोगित्वादस्याभ्यासक्रमे आदिस्थानात् अस्यैवादौ नियुक्तिकरणाञ्च महता विवरणेन परिवारितं पूज्यैः, अस्यैवोपरि नियुक्तिमूलभाष्यभाष्यविशेषावश्यकभाष्यचूर्णिप्रभृतयो विवरणग्रन्थाः विहिता विपश्चिन्मूर्धन्यैः, एवं चाचार्यश्रीमलयगिरिभिरपि व्यधायि विवरणमस्य, परं केनापि हेतुनेदमपूर्णमेव श्रीकुन्थुनाथस्तव पर्यन्तं दृब्धं, यथा चैतदपूर्णमाचार्याणामेषां तथा श्रीबृहत्कल्पभाष्यविवरणमप्यपूर्णमेवास्ति, मुद्रणं त्वेतस्यैतावन्मानं व्यधायि, ततः शेष विवरणं श्रीमत्या आगमोदयसमित्या प्राग मुद्रितायाः श्रीहरिभद्रीय|वृत्तेरवधेयं, अपूर्णस्यापि मुद्रणमस्योपयुक्ताने कविषयसमावेशात् विस्तृततया विवरणाच नानुपयुक्तम् ।। 2 ॥ ३ ॥ Jain Education For Private Personal use only M ainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 340