Book Title: Avashyaksutram Part_3 Author(s): Malaygiri, Bhadrabahuswami, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ उपक्रमः। श्राआव०४ न्यूनमिति तदनुसरतेवोक्तं श्रीमद्भिरपि, न च तथाविधानां महतामाशातना कार्यैवमुन्मार्गपोषकैरसूयामयः वचनैः, श्रीमतामनेहसि श्रीमतां मलयगि० समन्तभद्राचार्याणामाद्यस्तुतिकारकतया प्रसिद्धिः, तत एव च श्रीमन्तः ११ पत्रे नयास्तव स्यात्पदेतिकाव्यमाद्यस्तुतिकारोऽप्यवोचदित्येव मादिश्यादिक्षन , भगवन्तः श्रीहेमचन्द्राचार्या अपि स्वोपज्ञश्रीसिद्धहैमशब्दानुशासनेऽप्येतदेव काव्यं स्तुतिकारोऽप्याहेत्येवमुक्त्वोदाजह्वः, ॥४॥ एवं च यः कश्चन पारगतादितागममलिम्लुक् परकीयागमपटच्चरः श्रीमतां समन्तभद्राणां नग्नत्वं नाटितवांस्तन्न प्रमाणास्पदमित्यवधेयं धीधनैः न चेदतः प्रनो नग्नाटतादर्शकः पाठः, न च नग्नानां भवतां शुभवतां कथञ्चित्पक्षपातो भविष्यतीत्यपि नोद्यं,यतः श्रीमतां भगवतामहतां नमस्कारस्य प्रसंगे परिपहनामनप्रसंगे नग्नानां स्पष्टस्तिरस्कारः सयुक्तिकं विस्तरेण विहितः, नयप्रमाणविचारे चाकलङ्कीयं लघीयस्त्रय्यलङ्कारव्याख्यादिकं दूषितमतिशयेन,तथा च नैव भगवन्तः समन्तभद्रा दिगम्बराः,श्रीमतां च समये श्रीमतां समन्तभद्राणां श्वेताम्बरेषु स्तुतिकारकतया आद्यस्तुतिकारकतया च प्रसिद्धिः, तत एवोभयेषां कृतिद्वयेऽपि समान उल्लेखः, यद्यपि भगवन्तः श्रुतकेवलिदेशीयाः श्रीसिद्धसेनदिवाकरा अपि आद्यस्तु-16 तिसूत्रकाः, उदाहृतं च श्रीहेमचन्द्रैराचार्यैरयोगव्यवच्छेदस्तुति चक्राणैः क सिद्धसेनस्तुतयो महार्था इत्यूचानस्तेषामनुकरणं, तथापि विशेषतः वादिमुख्यतया तेषां प्रख्यातिः, वास्तवं चेदमभिधानं, यतस्तेषां स्तुतिवृन्दे शतशो वादस्थानान्यासूत्रितान्यवलोक्यन्तेऽवलोककैः, श्रीमन्तो मलयगिरयोऽपि अत्रैव १०५ पत्रे वादिमुख्यनाम्नैव सस्मरुस्तान् । पूज्यपादानां ग्रन्थाः-पूज्यपादाः श्रीमतामभयदेवसूरिवर्येभ्यः परतोऽभूवन्निति स्थानाङ्गादिसूत्राणां व्याख्याभ्योऽनु राजप्रश्नीयादुपाङ्गानां व्याख्यां, जम्बूद्वीपप्रज्ञप्तेरभूत् भगवत्कृतिभूषिता वृत्तिः, परं नष्टाऽशेषैव सा शेमुषीमतां भाग्यहान्या, स्पष्टं चेदं श्रीजम्बूद्वीपप्रज्ञप्तः शान्तिचन्द्रीयायामपि वृत्तौ, इमे प्राप्यमाणाः ग्रन्थाः श्रीमतां RACCORRC AMASOOCLEARINCIDCORRENCE ॥४॥ Jain Education anal For Private & Personel Use Only ainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 340