Book Title: Avashyak Sutram Part 02 Author(s): Punyakiritivijay Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust View full book textPage 9
________________ सम्पादकीयम् द्वितीयो विभागः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 7 // / सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्य-8 देवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। आवश्यकनिर्युक्तेः प्रथमे विभागे सामायिकस्य पूर्वभूमिका प्रदर्शिता / तस्मिन्नेव सामाचार्युपक्रमकालं प्रदर्श्य द्वितीयविभागे आयुष्कोपक्रमकालेन प्रारभ्यते / तदनन्तरं नयानां प्ररूपणा कृता / अपृथक्त्वे श्रुते नयानां समवतारः पृथक्त्वे श्रुते नास्ति समवतारः, पुरुषविशेषापेक्षंवा नयाः अवतार्यन्ते। यावदार्यस्वामिनः श्रुतमपृथक्त्वमासीत् तत्सम्बधेन आर्यवज्रस्वामिनः वक्तव्यता। तस्मिन् आर्यरक्षितसूरिवक्तव्यता दशपुरनगरस्योत्पत्तिः, एवं निह्नववक्तव्यता सामायिकं कथमवाप्यते तस्मिन् द्वारे मनुष्यदुर्लभतायां दश दृष्टान्ताः प्रतिपादिताः / अनुकम्पाप्रवणचित्तो जीवः सामायिकं लभते तत् दृष्टान्तैः दृढ़ीकृतम् / सर्वविरतिसामायिकनिरुक्तिमुपदर्य तस्योपरि ] अष्टदृष्टान्ताः प्रतिपादिताः। एवं उपोद्धातनियुक्तिं प्रदर्श्य सूत्रस्पर्शिकनिर्युक्त्यवसरे द्वात्रिंशद्दोषविरहितं सूत्रं प्रदर्शितम् / तदनन्तरं नमस्कारस्य उत्पत्तिनिक्षेपादिनवद्वाराणि प्ररूपितानि, तस्मिन् प्ररूपणाद्वारे प्ररूपणा षट्पदा नवधा पञ्चपदा प्ररूपिता / तदनन्तरं सिद्धनमस्कारं कृतः सिद्धप्रकारान् प्रदर्श्य बुद्धिसिद्धभेदे चतुर्विधा बुद्धिः सदृष्टान्ताः प्रतिपादिता / कर्मक्षयसिद्धे समुद्धातस्वरूपंप्रतिपादितमस्ति / आचार्योपाध्यायसाधुनमस्कारादि तथा नमस्कारफलं च सदृष्टान्तं प्ररूपितम्। एवं द्वितीयविभागे युगप्रधानानां श्रीवज्रस्वामीश्रीआर्यरक्षितसूरीश्वरादीनां च महाप्रभावकचरित्राणि प्ररूपितानि तान्यवगम्य // 7 //Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 404