Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
२११
आचार्यदण्डविरचिता
दोहकघृतमन्थका द्रोणमायगाढवाहकपटिकाच्छेदकपेयालमालेयकशलाग्राहका उग्राहकलक्षकाशासकनिर्यामकादर्शनावीरकाः कार्तिकतरुककारतन्त्रचापदेवतटकौशेयवायकदुकूलवायकाः शौण्डकासविकापयातकरिणान्यकराः कनकधमक .... रकपूतकव्याघातकधातुदर्शका विशिखोपथिकशुष्कादायकमायकोमायका इत्यसङ्ख्या नृशंसव्यापृतका यथायथमनुभवन्ति स्वर्नयानां जनिविशेषतः पुनः पानविक्रयिणो विजितसौम्या बहुरसोऽयं फलासवः पुष्कलोऽयं पुष्पासवः सुरमिरयं सुरासवो मधुरोऽयं मध्वासवः काम्य एष कषायासवः कल्यताकरण एष काशमय्यासवो सुधायुरिमं मूलासवं पिबतां ममोऽयं भमकुण्ठभयो भल्लास्वातकाकथ्यामितश्रेयः कपित्यशकलिकयादमृतमेनमाहुः स्थूमलक. शकलीय एष राजपेयः कदम्बशकलीयो बलकरोऽयं पुष्पासवः सुरभिनवाः पातीयः परिपन्थ्येष सर्वामयानां पलाशमाननिष्कपाटीयः कः क्षमोऽस्य गुणकयने कपित्थमानिष्कपाटीयस्येति बहु बहु प्रलोभ्य पाप ........ पितवन्त ....... इह पर्याकुलाः प्रक्वथन्ति का पुष्पाणि(?)। ये पुनरखिल. काळीयविकारकोशकालायसकरण्डकाः क्षत्रशब्दविडम्बका विषयविषप्रासलेशलोभो .... दूरमोहिता हितैषिमिः कर्णजप्यं मौनमाकर्णयन्तो मन्त्रभूयःप्रबोषवीर्षनिद्रयाश्लिष्टा घटाभिषेकक्षालितमूर्तयोऽपि जनिताशौचाः शोचनीयभूतयो दारुणपटहघोषोद्वेजितश्रवणा लोकाक्रोशहेतवः प्रबुद्धजननिर्वेददा (लि ! यि)नः प्रतिमयदर्शनाः पृथजागानुगमनोचिताः पुरस्कृतात्मदहनतेजसः कृतकपटाव
1. L. about 2 letters, 2, 3. The two lacunae cover about 12 letters 4. L. about 18 letters,

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284