Book Title: Anuyogdwar Sutram Author(s): Divyakirtivijay Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust View full book textPage 5
________________ आशीर्वादः श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 3 // // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्रशास्त्राज्ञा प्रवर्तते तत्रशासनं विलसत्यतितमाम्।भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधना साध्या। यद्यपिशास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सवैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतांशास्त्राणामध्ययनार्थं पात्रता| ऽनिवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च। तत्र मूलागमशास्त्राणि तद्वत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरीभवन्ति / तदितररूपाणि शास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमण-2 श्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीनगीताथैः स्वीकृता, केवलं निगूढरहस्यानां छेदसूत्राणां मुद्रणंनाहतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणांसम्पुटः सम्पादितः मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्ति-8 विजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणि सम्पादितानि / तत् परम्परायामिदंसम्पादनंस्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च।। प्रेरकत्वयात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम् / श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्ग्रेन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्को // 3 //Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 450