________________
इह हि ग्रन्थकारः सकल शुभक्रियाकलापसाध्यभूतं ऐहिकाऽऽमुष्मिकसौख्यदायकं मङ्गलार्थ मङ्गलभूतं शुभं कर्म स्तौति । यथा -
तं जयइ सुहं कम्मं निम्मिअसम्मं जयम्मि जं सूरो । अविरामं पिच्छंतो अज्जवि न करेइ वीसामं ॥१॥
तं जयइत्ति तत् शुभं कर्म जयति । जयतीति क्रियापदम् । किं कर्तृ कर्म 1 किंविशिष्टं कर्म शुभं शुभप्रकृतिरूपम् । पुनः कथम्भूतं ? निम्माअसम्मं ति सम्यक् निर्मितं सम्यक पुण्यप्रकृत्या निबद्धम् । पुण्यप्रकृतिर्यथा सा उच्चगोअ इत्यादि । सातवेदनीयं कर्म १ उच्चैर्गोत्रं २ मनुष्यद्विकं मनुष्यतिः ३ मनुष्यानुपूर्वी च । पूर्वी वर्ण्यते द्विसमयादिविग्रहेण भवान्तरं गच्छतो जन्तोर्वृषभनासिकारज्जुकगत्या अनुश्रेणिनयनमित्यर्थः ४ देवगतिः ५ देवानुपूर्वी ६ पञ्चेन्द्रियजातिः ७ औदारिक ८ वैक्रिय ९ आहारक १० तैजस ११ कार्मण १२ रूपाणि पञ्च शरीराणि औदारिक १३ वैक्रिय १४ आहारकाणां अङ्गोपाङ्गानि १५ वज्रऋषभनाराचसंहननं १६ समचतुरस्संस्थानं १७ वनचउक्का० शुभवर्ण १८ शुभगन्ध १९ शुभरस २० शुभस्पर्श २१ अगुरुलघुनामकर्म अङ्गं न गुरु न लहुअं इत्यादि २२ पराधातनामकर्म यतोऽपरेषां दुर्धर्षो भवति २३ उच्छ्वासनाम कर्म २४ रविबिम्बे आतपनामकर्म २५ अनुष्णप्रकाशरूपं = अणुसिणपयासरख्वं चन्द्रे उद्योतनामकर्म २६ शुभविहायोगतिर्हंसादीनामिव २७ अंगोवंगनिअमणं निम्माणं कुणइ सुत्तहारसमं २८ । त्रसदशकमाह - तसबायर० त्रसनाम २९ बादर ३० पर्याप्त ३१ प्रत्येक ३२ स्थिर ३३ शुभ ३४ सुभग ३५ सुस्वर ३६ आदेय ३७ जस ३८ एतत् त्रसादिदशकं सुरायुः ३९ नरायुः ४० तिर्यगायुः ४१ तीर्थङ्करत्वं ४२ एवं द्विचत्वारिंशत पुण्यप्रकृतयो भवन्ति । प्रस्तुतमेवाह
जं यत् कर्म पुण्यप्रकृत्योपार्जितं तीर्थकर चक्रवर्ति वासुदेव बलदेव अन्येऽपि महाराजादिरूपं निम्मिअसम्मं ति सम्यक् निर्मितं जयंमि त्ति जगति विश्वे सूरो त्ति सूर्यो दिनकरः अविरामं पिच्छंतो त्ति विरामरहितं विश्रामरहितं ।
१. 'अविराम' : छाणी
Jain Education International
[६२]
For Private & Personal Use Only
—
www.jainelibrary.org