Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। श्रीमुरारिकविरचितम् अनघेराघवम् । श्रीमदुपाध्यायरुचिपतिकृतटीकासहितम् । प्रथमोऽङ्कः। निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ १॥ १. मुरारिकविः कस्मिन्देशे काले च बभूवेति सम्यङ् न निश्चयः, किं तु ख्रिस्तसंवत्सरीयनवमशतकमध्यभागसमुत्पन्नाद्धरविजयमहाकाव्यकर्तुः श्रीराजानकरलाकरमहाकवेः प्राचीन इति वक्तुं शक्यते. यतो हरविजये (३८।६७) 'अङ्कोत्थ (अङ्केऽथ) नाटक इवोत्तमनायकस्य नाशं कविय॑धित यस्य मुरारिरित्थम् । आक्रान्तकृत्स्नभुवनः क्व गतः स दैत्यनाथो हिरण्यकशिपुः सह बन्धुभिर्वः ॥' इत्ययं श्लोको वर्तते. अत्र यद्यपि 'अङ्क उत्सङ्गे, मुरारिर्विष्णुः' इति प्रकृतोऽर्थः, तथापि रत्नाकरकविना यत्नपूर्व निवेशिता अङ्कनाटक-कवि-मुरारिशब्दा नाटककर्तारं मुरारिकविमेव लक्षीकुर्वन्तीति विभावयन्तु विद्वांसः. मुरारिकविप्रशंसायां केषांचिच्छोकाः- 'देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिर्लवित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥ १ ॥ मुरारिपदचिन्ता चेत्तदा माघे मतिं कुरु । मुरारिपदचिन्ता चेत्तदा माघे मतिं कुरु ॥२॥ मुरारिपदचिन्तायां भवभूतेस्तु का कथा । भवभूतिं परित्यज्य मुरारिमुररीकुरु ॥ ३ ॥ भवभूतिमनादृत्य निर्वाणमतिना मया। मुरारिपदचिन्तायामिदमाधीयते मनः ॥ ४ ॥' इति. अस्य नाटकस्य पठनपाठनादिषु कश्मीरेषु प्रचुरः प्रचारः. एतनाटकस्य नृसिंहसूनुहरिहर-मिश्रभवनाथ-उदयसूनुधनेश्वर-विष्णुभट्ट-रुचिपत्युपाध्यायप्रणीतं टीकापञ्चकं प्राप्यते. तन रुचिपतिकृतैव टीकातिसमीचीनेति सैव गृहीतात्रास्माभिः. २. रुचिपत्युपाध्यायो मिथिलादेशप्रसिद्धात्खिस्तसंवत्सरीयवर्तमानशतकप्रारम्भसमुद्भूतगोकुलनाथोपाध्यायशिष्यरुचिपतितः प्राचीनः. यतोऽस्माभिरेतन्मुरारिनाटकटीकापुस्तकं १५३५ मिते शके लिखितमधिगतम्. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 331