Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः
अनर्धराघवम् । तत्कस्यचिदभिमतरसभावभाजः प्रेक्षणकस्य प्रयोगानुज्ञया नाट्यवेदोपाध्यायबहुरूपान्तेवासी मध्यदेशीयः सुचरितो नाम भरतपुत्रोऽहमनुगृह्ये । यतः ।
प्रीतिर्नाम सदस्यानां प्रिया रङ्गोपजीविनः । जित्वा तदपहर्तारमेष प्रत्याहरामि ताम् ॥ ३ ॥
त्वादुत्तमपदस्य पूर्वनिपातापत्तिः । न च पुरुषेषूत्तम इति विगृह्य समासः । तथा सति 'न निर्धारणे' इति सूत्रमनारभ्यं स्यात् । सप्तमीसमासेनैव सर्वत्र चरितार्थत्वात् । तथाप्यत्र पुरुषाणामुत्तम इति षष्टीसमास एव । निर्धारणस्य विवक्षणात् , तदभिव्यञ्जकपदाभावात् , जातिगुणादेरश्रवणात् । यद्वा ‘पञ्चमी' इति योगविभागात्समासः । पुरुषेभ्य उत्तमः पुरुषोत्तम इति । 'यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥' इति गीतासु भगवद्वचनात् । काव्यदर्पणकारास्तु---'न निर्धारणे इति प्रतिषेधस्य तु स विषयो यत्र निर्धारणावधिर्निर्धार्यमाणं निर्धारणनिमित्तं च त्रितयमुपादीयते । यथा पुरुषाणां क्षत्रियः शूरतम इत्यत्र तु त्रितयं नोपात्तमिति नासौ तद्विषयः' इत्याहुः ।. 'यात्रा स्याद्यापनायां च गतौ देवार्चनोत्सवे' इति धरणिः । उपस्थानीया इत्यत्र 'भव्यगेय-' इत्यादिनिपातनात्कर्तर्यनीयर् । 'सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते' इत्यमरः । भूयिष्ठामिति 'बहोर्लोपो भू च बहोः' इति बहुशब्दस्य भूभावः । 'इष्टस्य यिट् च' इति यिडागमः ॥
तत्कस्यचिदिति । यतोऽयं लोक उद्विग्नस्तत्तस्मात् । अभिमतः प्रेमपात्रं यो रसः शृङ्गारादिस्तद्भावमभिप्रायं भजते । 'भजो ण्विः' । तस्य प्रेक्षणकस्य नाटकस्य प्रयोगानुज्ञया प्रयुक्त्यनुशासनेन भरतपुत्रो नटपुत्रोऽहमनुगृह्येऽनुग्रहणीयः। तेनेति शेषः। लोकोद्वेगशान्त्यर्थमनुग्रह इति भावः । 'भरता इत्यपि नटाः' इति धरणिः । अनुगृह्य इति कर्मणि लट् । प्रकृष्टमीक्षणं दर्शनं यत्रेति प्रेक्षणकं नाटकम् । क्वचित् 'प्रेक्षणकस्य' इति पाठः । तत्रापि प्रेक्षणकस्य नाटकस्येत्यर्थः । इखिधातुर्गत्यर्थो दण्डकस्थस्तत्र करणे ल्युट प्रपूर्वः । ततः संज्ञायां कन् । कीदृशोऽहम् । नाम प्रसिद्धौ । सुचरितः । नामपदस्य संज्ञार्थत्वे 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीयया भाव्यमित्यवधेयम् । पुनः कीदृशः । नाट्यं नृत्यं तत्र वेदस्तस्योपाध्यायो व्याख्याता । नानामषीनेपथ्यग्रहणाहुर्ग(बहु)रूपस्तन्नामा वा कश्चित्तस्यान्तेवासी शिष्यः । मध्यदेशो भरतखण्डस्तत्समुद्भवश्च । 'अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । तदीयानुकृतिः प्राज्ञैर्नाट्यमित्यभिधीयते ॥' इति भरतः । मध्यदेशीयत्वेनातिविज्ञता प्रदर्शिता । यदाह भरतः—'भरतं वर्षमाश्रित्य कर्तव्यं नाटकादिकम् । स्थानान्तरे समुद्भतिर्यतो न सुखदुःखयोः ॥' इति । अनुग्रहे हेतुमाह-यत इति । नाम संभावनायाम् । यतो यस्मात्सदस्यानां पारिषदानां या प्रीतिः सा मम रङ्गोपजीविनो नटस्य प्रियापेक्षिता । तस्याः प्रीतेरपहारमपहारकं कलहक
अन० २
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 331