Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
अनर्घराघवम् । नमस्कारो गुरूणामपि च स्तुतिः । गोब्राह्मणनृपादीनामाशीर्नान्दी' इति कोहलः । यद्वा 'नदि स्तुतौ' इत्यत्र धातौ पृषोदरादिपाठेन साधितः । तथा चाहुः-'स्तुत्यर्थे नदिधातौ वा समृद्धयर्थे च वा पुनः । पृषोदरादिपाठेन नान्दीसाधनमीरितम् ॥' इति । एवं च रत्नकोषः । प्रत्याहारगीतवाद्यादिद्वाविंशत्यङ्गेष्वन्तर्गता पूर्वरङ्गस्य प्रधानाङ्गभूता स्तुतिरेव नान्दीति । सा चेयं द्वादशपदाष्टपदा वा कार्या । 'सूत्रधारः पठेत्तत्र मध्यम खरमाश्रितः । नान्दी पदैदशभिरष्टभिर्वाप्यलंकृताम् ॥' इति । पदं चात्र द्विविधमभिप्रेतम्, सुप्तिङन्तं श्लोकपादाख्यं च । तदुक्तं नाट्यलोचनकृता---'सुप्तिङन्तं पदं चात्र श्लोकपादश्च वा पदम्' इति । तत्राद्ये द्वादशपदा यथोत्तरचरिते-'इदं गुरुभ्यः' इत्यादि। अष्टपदा यथा भगवदब्जके-'जयति सितविलोलव्यालयज्ञोपवीती' इत्यादि । अन्त्ये द्वादशपदा यथा रत्नावल्याम्-'जितमुडुपतिना' इत्यादि । अष्टपदा यथा मुद्राराक्षसे'धन्या केयम्' इत्यादि । ननु नान्दी द्वादशपदाष्टपदा च कर्तव्येति यदि नियमस्तदा कथमभिज्ञानशाकुन्तले 'या सृष्टिः स्रष्टुः' इत्यादेर्नान्दीत्वम् । द्वादशपदेभ्योऽधिकपदत्वादिति चेन्न । 'पञ्चविंशत्पदा नान्दी नित्यमेव शुभावहा । स्यानायकस्य च कवेर्यदि शंभुविभूषिता ॥' इति भरताभिधानात् । यद्वा 'नान्दी पदैदशभिरष्टाभिर्वाप्यलंकृताम् । तां षोडशपदामेके केचिदाहुश्चतुष्पदाम् ॥' इत्यनुशासनाच्चतुष्पदैव सा नान्दीति । इयं च नान्दी चतुष्प्रकारिका । तथा च दशरूपकम्-'नमस्कृतिङ्गिलिकी आशीः पत्रावली तथा । नान्दी चतुर्थी निर्दिष्टा नाटकादिषु धीमता ॥ नमःप्रधानवाक्येन कोमलेन पदेन च । कल्पिता शंभुना युक्ता नमस्कृतिरितीरिता ॥ देवस्यार्धेन्दुचूडस्य विलासेनोपवर्णिता । मङ्गलानुगतं वाक्यं यत्र माङ्गलिकीति सा ॥ देवद्विजनृपादीनामाशीर्वादविभूषिता । नान्दी मङ्गलसंयुक्ता स्यादाशीरिति तद्विदः ॥ वाच्यार्थबीजरचिता शृङ्गारादिसमन्विता । संयुक्ता चन्द्रपद्माभ्यां पत्रावल्यभिधीयते ॥' अत्र च नमस्कृतिरूपनान्दीलक्षणसत्त्वात्सैव बोद्धव्येत्यलमतिवाक्पल्लवेन । 'नर्तनीयकथासूत्रं प्रथमं येन सूच्यते । रङ्गभूमि समासाद्य सूत्रधारः स उच्यते ॥' ननु, 'नान्द्यन्ते सूत्रधारः' इत्यसंगतम् । सूत्रधारपठनीया नान्दी, नान्दीपाठानन्तरं च सूत्रधारप्रवेशः, प्रवेशानन्तरं पाठावसरः, इत्यन्योन्याश्रयात् । उच्यते-नान्दीनामा सूत्रधारस्तदन्ते तनिष्कान्तौ सूत्रधार इव सूत्रधारः स्थापकः प्रविशतीत्यर्थः । तदुक्तं भरते-'अथ पात्राणि तत्रादौं नान्दी नान्दी तु यः पठेत्' इति । तत्रैव 'नान्दी प्रयुज्य निष्कामेत्सूत्रधारः सहानुगः । स्थापकः प्रविशेत्पश्चात्सूत्रधारगुणाकृतिः ॥ पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनटः ॥' शातकर्णः-'सूत्रधारगुणाकारः स्थापकः प्रविशेत्ततः । उपचारेण सोऽप्यत्र सूत्रधारोऽभिधीयते ॥' इति । यद्वा नान्यन्येनैव पठिता, तदन्ते सूत्रधारः प्रविशति । वदति च वक्ष्यमाणमिति शेषः । तथा च संगीत
१. कोहलो नाम कश्चिदतिप्राचीनो नाट्यशास्त्राचार्यः. "विटखटके का नृत्यति कोहलभरतोदितक्रियया' इति कुटनीमतग्रन्थे दामोदरगुप्तः.
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 331