Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (नान्द्यन्ते) सूत्रधारः-अलमतिविस्तरेण । भो भो लवणोदवेलावनालीतमालतरुकन्दलस्य त्रिभुवनमौलिमण्डनमहानीलमणेः कमलाकुचकलशकेलिकस्तूरिकापत्राङ्कुरस्य भगवतः पुरुषोत्तमस्य यात्रायामुपस्थानीयाः सभासदः, कुतश्चिद्वीपादागतेन कलहकन्दलनाम्ना कुशीलवेन रौद्रबीभत्सभयानकाद्भुतरसभूयिष्ठं कमपि प्रबन्धमभिनयता नित्यं किलायमुद्वेजितो लोकः । प्रयोक्तव्यः । तथा 'काभ्यां त्रिभुवनतिलको राजा' इति । तस्मै कस्मै । महाकल्पे प्रलये विरमति निवृत्ते सति । संहारेच्छायां गतायां सर्गेच्छायां प्रवृत्तायामिति भावः । असौ प्रसिद्ध आत्मभूर्ब्रह्मा कस्य पदार्थस्य किमधिकरणा किमाधारा कीदृग्व्यवस्थितिराकारसंनिवेश इति द्रष्टुमुपलब्धुं प्रतिक्षणं प्रतिमुहूर्त यस्योदरमविशत्प्रविष्टः । विशेः कर्तरि लङ् । नाभिरेव पन्था नाभीपथः । 'ऋक्पूरब्धू:--' इत्यकारः समासान्तः । स एवैकमद्वितीयं निकेतनमालयो यस्य स तथा । एतेन ब्रह्मण: पद्मासनत्वेन सदा संनिधाना प्रतिक्षणं पद्मनाभोदरप्रवेशः सुशक इति सूचितम्। त्रिभुवनमेव पूनगरं तस्य शिल्पी निर्माता । इह 'ऋक्पू:-' इत्यकारः समासान्तो न भवति । तद्विधेरनित्यत्वात् । 'त्रिभुवनपुनःशिल्पी' इति पाठे त्रयाणां भुवनानां पुनर्घटक इत्यर्थः । विश्वंभररूपस्य विष्णोरुदरे त्रैलोक्यमस्ति । अयं च स्रष्टा त्रिभुवनं निर्मित्सुः । निर्माणस्य च पूर्वदर्शनव्यतिरेकेणानिर्वाहात् । किं किं खरूपं केन प्रकारेणावस्थितमिति ज्ञातुं तस्योदरं प्रविष्टः । प्राचीना सृष्टिविस्मृतैवेति भावः । वारंवारघटनात्पुनःशब्द उचित एव । अनेन पद्येन दशग्रीवे विरमत्यात्मभू रामो लङ्कोदरं तत्संनिवेशदर्शनाय प्रविष्ट इति सूचितम् । यद्वा तस्मिन्विरते तत्तत्संनिवेशदर्शनायायोध्यामेवाविशदिति सूचितम् । अ. नयोः पद्ययोः प्रसादनामा वाक्यार्थगुणः । तथा च सरस्वतीकण्ठाभरणे—'यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते' इति । यथा-'अयमुदयति निद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरह विधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥' अत्र पद्मिनीविकासकरणे उदयशैलावतरणे कोकशोकापहरणे तमोविदारणेऽनुक्तोऽपि सूर्यरूपोऽर्थः प्रकटमुपलक्ष्यते। तथा कौमोदकीधारणे चन्द्रसूर्यचक्षुष्मत्त्वे नाभ्यां पुण्डरीकपरिपालन उदरे त्रिलोक्याः समावेशेऽनुक्तोऽपि विष्णुरूपोऽर्थो लक्ष्यत इति । जगन्निधय इत्यत 'नमःखस्ति-' इत्यादिना चतुर्थी । विरमतीत्यत्र 'व्यापरिभ्यो रमः' इति परस्मैपदत्वाच्छचन्तात्सप्तमी । त्रिभुवनेत्यत्र सुप्सुपेति समासः । न तु समाहारद्विगुः । तथा सति त्रिभुवनीति स्यात् । 'पू: स्त्री पुरीनगर्यो' इत्यमरः ॥ 'नान्द्यन्ते सूत्रधारः' इति वक्ष्यमाणलक्षणं नाटकाद्यपद्यं नान्दी । तथाहि—'देवतादे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 331