Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः] अनर्घराघवम् । अपि च । विरमति महाकल्पे नाभीपथैकनिकेतन त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभूः । किमधिकरणा कीहक्कस्य व्यवस्थितिरित्यसा वुदरमविशद्रष्टुं तस्मै जगन्निधये नमः ॥ २ ॥ सूर्यचन्द्रवरूपतया तदुभयतेजःसंबन्धात्पुण्डरीकमुकुलस्यार्धविकासोऽर्धनिमीलनं च युक्तमेवेति खरूपकथनम्' इत्याहुः ॥ ___ इह यद्यपि नान्दीलक्षणे सूचनायाः कर्तव्यता न कुत्रापि बोधिता, न च पत्रावलीनान्यां वाच्यार्थबीजपदोपादानात्सूचना कर्तव्येति वाच्यं । तत्र वाच्यार्थबीजपदेन नायकाभिधानातू , तथाप्यत्र बहुप्रामाणिकोपदेशः शरणमिति सूचनावतारः । तदिह हरेनेत्रप्रायौ रामलक्ष्मणौ, चकोरतुल्ये सीतालोचने, तयोः पारणा रामचन्द्रमुखचन्द्रज्योनापानरूपा, याभ्यां रामलक्ष्मणाभ्यां रावणः शत्रुः कृत इति संप्रदायः । वयं तु ब्रूमःनिष्प्रत्यूहमित्यनेन प्रकृते निर्गतः प्रत्यूहो रावणादिर्यस्मात्स निष्प्रत्यूहो रामभद्रस्तमुपास्मह इति रामभद्रप्रवेशस्तत्कर्तृकवधश्च सूच्यते । कौमोदकीत्यनेन को पृथिव्यां मोदकी हर्षहेतुरिन्द्रजिद्विनाशादिस्तद्योगित्वान्मोदकी लक्ष्मणोऽस्तीति लक्ष्मणप्रवेश इन्द्रजिद्विनाशश्च सूच्यते । कोकप्रीतीत्यनेन कोकतुल्यः सुग्रीवः । कोकानां रात्रौ तारादर्शनात्संतापो भवति । सुग्रीवस्यापि वालिपरिगृहीतायास्तारासंज्ञिकायाः पत्न्याः संताप इत्येतावता तत्सादृश्यं तस्य प्रीतिर्वालिवधादिति सुग्रीवेण समं रामचन्द्रस्य प्रीतिस्तत्कर्तृकवालिवधश्च सूच्यते । चकोरपारणेत्यनेन चकोरसदृशो बिभीषणः । चकोराणां रात्रौ चन्द्रदर्शनेन हर्षोदयाद्विभीषणस्यापि राक्षसस्य रात्रौ संचरणस्वाच्छन्द्याद्रामचन्द्ररूपचन्द्रदर्शनाच हर्षोदय इति तेन तत्सादृश्यं तस्य पारणा लङ्कायां राज्यप्राप्तिरूपा । तथा च विभीषणस्य लङ्कायां राजत्वं सूच्यते । अर्धविबोधेत्यादिना रामभद्रसेनायाः प्रकाशः । अर्धनिद्रायित इत्यनेन रावणसेनाया अविकासः । यद्वार्धनिद्रायित एव कुम्भकर्णः प्रबो. धितः सङ्ग्रामायेति सूच्यते । सपत्नीकृत इत्यनेन रावणेन सीताहरणादामः शत्रुः कृत इति सूच्यते । ज्योतिष्मती इत्यत्र 'तदस्यास्त्यस्मिन्' इति मतुप् । 'भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु' इति मेदिनीकरः । 'कौमोदकी गदा' इत्यमरः । 'विघ्नोऽन्तरायः प्रत्यूहः' इति। 'चिहं लक्ष्म च लक्षणम्' इति च। 'पल्वलं चाल्पसरः' इति । 'पुण्डरीकं सिताम्भोजम्' इति । 'कुङ्मलो मुकुलोऽस्त्रियाम्' इति । 'कोकश्चक्रश्चक्रवाकः' इति । 'शङ्खोऽस्त्री कम्बुरस्त्रियाम्' इत्यपि । 'अव्यक्ते सुन्दरे मूढे मुग्ध इत्यभिधीयते', 'मधुरो मधुयुक्तेऽपि प्रिये चापि मनोहरे' इति विश्वः ॥ ___ अष्टपदां नान्दी दर्शयितुमाह-विरमतीति । तस्मै जगनिधये जगदाधारभूताय नमः। अस्त्विति शेषः। तथा चोक्तम्-'यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीः परः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 331